________________
३ उद्द्योतः]
ध्वन्यालोकः । एवं रसादीनां व्यञ्जकखरूपमभिधाय तेषामेव विरोधिरूपं लक्षयितुमिदमुपक्रम्यते
प्रबन्धे मुक्तके वापि रसादीबन्दुमिच्छता ।
यत्नः कार्यः सुमतिना परिहारे विरोधिनाम् ॥ १७ ॥ प्रबन्धे मुक्तके वापि रसाभावनिबन्धनं प्रत्यातमनाः कविर्विरोधिपरिहारे परं यत्नमादधीत । अन्यथा त्वस्य रसमयः श्लोक एकोऽपि सम्यङ्ग संपद्यते। कानि पुनस्तानि विरोधीनि यानि यत्नतः कवेः परिहर्तव्यानीत्युच्यतेविरोधिरससंबन्धिविभावादिपरिग्रहः। विस्तरेणान्वितस्यापि वस्तुनोऽन्यस्य वर्णनम् ॥ १८ ॥ अकाण्ड एव विच्छित्तिरकाण्डे च प्रकाशनम् । परिपोषं गतस्यापि पौनःपुन्येन दीपनम् । रसस्य स्याद्विरोधाय वृत्यनौचित्यमेव च ॥ १९ ॥ प्रस्तुतरसापेक्षया विरोधी यो रसस्तस्य संबन्धिनां विभावानुभावव्यभिचारिणां परिग्रहो रसविरोधहेतुरेकः संभवनीयः । तत्र विरोधिरसविभाव
हिता एव शब्दाः काव्ये योज्या इति तात्पर्यम् । रसादीनां यद्यञ्जकं वर्णपदादिप्रबन्धान्तं तस्य खरूपमभिधायेति संबन्धः । उपक्रम्यत इति । विरोधिनामपि लक्षणकारणे प्रयोजनमुच्यते शक्यभानत्वं नाम अनया कारिकया लक्षणं तु विरोधरससंबन्धीत्यादिना भविष्यतीत्यर्थः । ननु 'विभावभावानुभावसंचा?चित्यचारुणः' इति यदुक्तं तत एव व्यतिरेकमुखेनैतदप्यवर्गस्यते । मैवम् । व्यतिरेकेण हि तदभावमात्रं प्रतीयते न तु तद्विरुद्धम् । तदभावमात्रं च न तथा दूषकं यथा तद्विरुद्धम् । पथ्यानुपयोगो हि न तथा व्याधिं जनयति यद्वदपथ्योपयोगः । तदाह-कानीति । विभावेत्यादिना श्लोकेन यदुक्तं तद्विरुद्धं विरोधीत्यादिनार्यश्लोकेनाह । इतिवृत्तेत्यादिना श्लोकद्वयेन यदुक्तं तद्विरुद्धं विस्तरेणेत्यर्धश्लोकेनाह । उद्दीपनेत्यर्धश्लोकोक्तस्य विरुद्धमकाण्ड इत्यर्धश्लोकेन । रसस्येत्यर्धश्लोकोक्तस्य विरुद्ध परिपोषं गतस्येत्यर्धश्लोकेन । अलंकृतीनामित्यनेन यदुक्तं तद्विरुद्धमन्यदपि च विरुद्धं वृत्त्यनौचित्यमित्यनेन । एतत्क्रमेण व्याचष्टे-प्रस्तुतर
१. 'लक्षयितुमुपक्रमते' क-ख. ... १. 'उपक्रमते' क-ख. २. 'हानत्वं' क-ख. ३. 'कामिकया' ग. ४. 'गतार्थः' ग. ५. 'इत्यादि' क-ख. ६. 'अपि गम्यते' क-ख. ७. 'गम्यते' क-ख.
१५ ध्व. लो.