SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १६० काव्यमाला। न्यत्र च चारुत्वं यद्विभागेनोपदर्शितं तदपि तेषां व्यञ्जकत्वेनैवावस्थितमित्यवगन्तव्यम् । यत्रापि न तत्संप्रतिभासते तत्रापि व्यञ्जके रचनान्तरे यदृष्टं सौष्ठवं तेषों प्रवाहपतितानां तदेवाभ्यासादपोद्धृतानामप्यवभासते इत्यवस्थातव्यम् । कोऽन्यथा तुल्ये वाचकत्वे शब्दानां चारुत्वविषयो विशेषः स्यात् । अन्य एवासौ सहृदयसंवेद्य इति चेत् , किमिदं सहृदयत्वं नाम । किं रसभावानपेक्षकाव्याश्रितसमयविशेषाभिज्ञत्वम् , उत रसभावादिमयकाव्यखरूपपरिज्ञाननैपुण्यम् । पूर्वस्मिन्पक्षे तथाविधसहृदयव्यवस्थापितानां शब्दविशेषाणां चारुत्वनियमो न स्यात् । पुनः समयान्तरेणान्यथापि व्यवस्थापनसंभवात् । द्वितीयस्मिंस्तु पक्षे रसज्ञतैव सहृदयत्वमिति । तथाविधैः सहृ. दयैः संवेद्यो रसादिसमर्पणसामर्थ्यमेव नैसर्गिकं शब्दानां विशेष इति व्यञ्जकत्वाश्रय एव तेषां मुख्यं चारुत्वम् । वाचकत्वाश्रयस्तु प्रसाद एवार्थापेक्षायां तेषां विशेषः । अर्था(न?)पेक्षायां त्वनुप्रासादिरेव । गेनेति । स्रक्चन्दनादयः शब्दाः शृङ्गारे चारवो बीभत्से खचारव इति रसकृत एव विभागः । रसं प्रति च शब्दस्य व्यञ्जकलमेवेत्युक्तं प्राक् । स्रक्चन्दनादिशब्दानां तदानीं शृङ्गारादिव्यञ्जकलाभावेऽपि व्यञ्जकत्वशक्तेर्भूयसा दर्शनात्तदधिवाससुन्दरीभूतमर्थ प्रतिपादयितुं सामर्थ्यमस्ति । तथा हि-'तटी तारं ताम्यति-' इत्यत्र तटशब्दस्य पुंस्त्वनपुंसकत्वे अनादृत्य स्त्रीवमेवाश्रितं सहृदयैः । 'स्त्रीति नामापि मधुरं' इति कृत्वा । यथा वास्मदुपाध्यायस्य विद्वत्कविसहृदयचक्रवर्तिनो भद्देन्दुराजस्य–'इन्दीवरद्युति यदा बिभ्यां न लक्ष्म स्युर्विस्मयैकसुहृदोऽस्य यदा विलासाः । स्यान्नाम पुण्यपरिणामवशात्तदानी कीरीकपोलतलकोमलकान्तिरिन्दुः ॥' अत्र हीन्दीवरलक्ष्मविस्मयसुहृद्विलासनामपरिणामकोमलादयः शब्दाः शृङ्गाराभिव्यञ्जनदृष्टशक्तयोऽत्र परं सौन्दर्यमावहन्ति । अवश्यं चैतदभ्युपगन्तव्यमित्याह-कोऽन्यथेति । असंवेद्यस्तावदसौ न युक्त इत्याशयेनाह-अन्येति । पुनरप्यनियन्त्रितपुरुषेच्छायत्तोऽपि समयः कथं नियतः स्यात् । मुख्यं चारुत्वमिति । विशेष इति पूर्वेण संबन्धः । अर्थापेक्षायामिति । वाच्यापेक्षायामित्यर्थः । अनुप्रासादिरेवेति । शब्दान्तरेण सह या रचना तदपेक्षोऽसौ विशेष इत्यर्थः । आदिशब्दादर्थगुणानां संग्रहः । अत एव रचनायाः प्रसादेन चारुत्वेनोपबृं १. 'तत्संप्रति न भासते' ग. २. 'तेषां तेषां' ग. ३. 'वाचकखांश्रयाणां तु सोऽस्तु' ग. १. 'संपादयितुं' क-ख. २. 'आदिग्रहणाच्छब्दगुणालंकाराणां' ग. .
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy