________________
३ उड्योतः ] ध्वन्यालोकः।
२०५ प्रकारोऽन्यो गुणीभूतव्यङ्गयः काव्यस्य दृश्यते ।
यत्र व्यङ्ग्यान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत् ॥ ३५ ॥ व्यङ्ग्योऽर्थो ललनालावण्यप्रख्यो यः प्रतिपादितस्तस्य प्राधान्ये ध्वनिरित्युक्तम् । तस्यैव तु गुणीभावेन वाच्यचारुत्वप्रकर्षे गुणीभूतव्यङ्ग्यो नाम काव्यप्रभेदः प्रकल्प्यते । तत्र वस्तुमात्रस्य व्यङ्ग्यस्य तिरस्कृतवाच्येभ्यः शब्देभ्यः प्रतीयमानस्य कदाचिद्वाच्यरूपवाक्यार्थापेक्षया गुणीभावे सति गुणीभूतव्यङ्गयता । यथा
'लावण्यसिन्धुरपरैव हि केयमत्र
यत्रोत्पलानि शशिना सह संप्लवन्ते । उन्मज्जति द्विरदकुम्भतटी च यत्र
यत्रापरे कदलिकाण्डमृणालदण्डाः ॥' अतिरस्कृतवाच्येभ्योऽपि शब्देभ्यः प्रतीयमानस्य व्यङ्गयस्य कदाचिद्वाच्यप्राधान्येन चारुत्वापेक्षया गुणीभावे सति गुणीभूतव्यङ्ग्यता । यथो
तस्यैवात्मत्वं समर्थयितुमाह-प्रकार इति । व्यङ्ग्येनान्वयो वाच्यस्योपकार इत्यर्थः । प्रतिपादित इति । 'प्रतीयमानं पुनरन्यदेव' इत्यत्रोक्तमिति । 'यत्रार्थः शब्दो वा' इत्यत्रान्तरे वाच्यं च वस्त्वादित्रयं तत्र वस्तुनो व्यङ्ग्यस्य ये भेदा उक्तास्तेषां क्रमेण गुणभावं दर्शयति-तत्रेति । एतदुदाहरति यथेति । अभिलाषगर्भेयं कस्यचित्तरुणस्योक्तिः । अत्र सिन्धुशब्देन परिपूर्णता उत्पलशब्देन कटाक्षच्छटाःशशिशब्देन वदनंद्विरदकुम्भतटीशब्देन स्तनयुगलं कदलिकाण्डशब्देनोरुयुगलं मृणालदण्डशब्देन दोर्युग्ममिति ध्वन्यते । तत्र चैषां खार्थस्य सर्वथानुपपत्तेरैन्धशब्दोक्तेन न्यायेन तिरस्कृतवाच्यत्वम् । स च प्रतीयमानोऽप्यर्थविशेषः 'अपरैव हि केयं' इत्युक्तिगीकृते वाच्येऽशे चारुत्वच्छायां विधत्ते । वाच्यस्यैव खात्मोन्मजनया निमज्जितव्यङ्ग्यजातस्य सुन्दरत्वेनाभासमानत्वात् । सुन्दरत्वे चास्यासंभाव्यमानसमागमसकललोकसारभूतकुवलयादिभाववर्गस्य सुभगैकाधिकरणविश्रान्तलक्षणशब्दसमुच्चयरूपतया विस्मयविभावप्राप्तिपुरस्कारेण व्यङ्ग्यर्थोपस्मृतस्य तथाविध...... वाच्यरूपतामजनेनाभिलाषादिविभावत्वात् । अत एवेयं........... । यद्यपि वाच्यस्य प्राधान्येऽपि रसध्वनौ तस्य गुणतेति सर्वत्र गुणीभूतव्यङ्ग्यप्रकारो मन्तव्यः । अंत एव ध्वनेरात्मत्वमित्युक्तचरं बहुशः । अन्ये तु जलक्रीडावतीर्णतरुणीजनलावण्यद्रवसुन्द
१. 'तस्य च' ग. २. 'काव्यचारुत्वा' क-ख. -- १. 'उपसर्पयितुं' क-ख. २. 'तत्र चेष्टार्थस्य सर्वथा' क-ख. ३. 'अन्य' ग.४ कख-पुस्तकयोः 'सारभूत' इत्यारभ्य 'अत एवेयं ...'इत्यन्तः पाठो नास्ति. ५. 'ततः' क-ख.