SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ २०४ काव्यमाला। क्षणः शब्दानां व्यापार औत्पत्तिकशब्दार्थसंबन्धवादिनाप्यभ्युपगन्तव्य इति प्रदर्शनार्थमुपन्यस्तम् । तद्धि व्यञ्जकत्वं कदाचिल्लिङ्गत्वेन कदाचिद्रूपान्तरेण शब्दानां वाचकानामवाचकानां च सर्ववादिभिरप्रतिक्षेप्यमित्ययमस्माभिर्यत्न आरब्धः । तदेवं गुणवृत्तिवाचकत्वादिभ्यः शब्दप्रकारेभ्यो नियमेनैव तावद्विलक्षणं व्यञ्जकत्वम् । तदन्तःपातित्वेनापि तस्य न ग्रहादभिधीयमानमेतद्विशेष्यस्य ध्वनेर्यप्रकाशनं विप्रतिपत्तिनिरासाय सहृदयव्युत्पत्तये वा तक्रियमाणमेनतिसंधेयमेव । न हि सामान्यमावलक्षणेनोपयोगिविशेषलक्षणानां प्रतिक्षेपः शक्यः कर्तुम् । एवं हि सति सत्तामात्रलक्षणे कृते सकलसद्वस्तुलक्षणानां पौरुनक्त्यप्रसङ्गः । तदेवम्विमतिविषयो य आसीन्मनीषिणां सततमविदितसतत्त्वः । ध्वनिसंज्ञितः प्रकारः काव्यस्य व्यञ्जितः सोऽयम् ॥ ३४ ॥ तद्भीति । यत्र हि क्वचिदनुमानेनाभिप्रायादौ क्वचित्प्रत्यक्षेण दीपालोकादौ क्वचित्कारणेन गीतध्वन्यादौ क्वचिदभिधया विवक्षितान्यपरवाच्यादौ क्वचिद्गुणवृत्त्या विवक्षितवाच्येऽनुगृह्यमाणं व्यञ्जकत्वं दृष्टं तत एव तेभ्यः सर्वेभ्यो विलक्षणमस्य रूपं (न) सिध्यति । तदाह-रूपान्तरेणेति । ननु प्रसिद्धस्य किमर्थं रूपसंकोचः क्रियते । अभिधाव्यापारगुणवृत्त्यादेस्तस्यैव सामय्यन्तरोपनिपाताद्यविशिष्टं रूपं तदेव व्यक्तमुच्यतामित्याशक्ष्याह-तदन्तरिति । (तदन्तःपातित्वेऽपीति) न वयं संज्ञाविशेषान्निषेत्स्याम इति भावः । विप्रतिपत्तिस्तादृग्विशेषो नास्तीति । व्युत्पत्तिः संशयाज्ञाननिरासः । न हीति । गुणवृत्तिवाचकादयः सामान्यलक्षणम् उपयोगिषु विशेषेषु यानि लक्षणानि तेषाम् । उपयोगपदेन काकदन्तादीनां व्युदासः। एवं हीति । सामान्यत्रिपदार्थसङ्केतितसत्तेत्यनेनैव द्रव्यगुणकर्मणां लक्षितत्वाच्छ्रुतिस्मृत्यायुर्वेदधनुर्वेदप्रभृतीनां सकललोकयात्रोपयोगिनामनारम्भः स्यादिति भावः । विमतिविषयत्वे हेतुरविदितसतत्त्व इति । अतएवावमर्श नादत्र न कस्यचिद्विमतिरेतस्मात्क्षणात्प्रभृतीति प्रतिपादयितुमासीदित्युक्तम् । एवं यत्किंचिछनेरात्मीयरूपं भेदोपभेदसहितं यच्च व्यञ्जकभेदमुखेन रूपं तत्सर्व प्रतिपाद्य प्राणभूतं व्यङ्ग्यव्यञ्जकभावमेकप्रघट्टकेन शिष्यबुद्धौ विनिवेशयितुं व्यञ्जकवादस्थानं रचितमिति ध्वनि प्रतियद्वक्तव्यं तदुक्तमेव । अधुना तु गुणीभूतोऽप्ययं व्यङ्ग्यः कविवाचः पवित्रयतीत्यमुना द्वारेण १. 'पातित्वेऽपि तस्य ग्रहादभिधेयमानं तद्विशेषस्य ध्वनेः' क-ख. २. 'अभिसंधेयमेव' क-ख. ३. 'अभिप्रायविषय' क-ख. १. 'तदपीति' ग. २. 'क्वचिदभिधेयादो क्वचिद्विवक्षितान्य' क-ख. ३. 'व्यञ्जकत्वं' क-ख. ४. 'ज्ञान' क-ख. ५. 'अत एवाधुनात्र' क-ख. ६. 'शिष्यबुद्धिषु निवे' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy