________________
२०३
३ उद्द्योतः ]
ध्वन्यालोकः । लिङ्गत्वरूपमेव । आलोकादिष्वन्यथा दृष्टत्वात् । तस्मात्प्रतिपाद्यो विषयः शब्दानां न लिङ्गत्वेन संबन्धी वाच्यवत् । यो हि लिङ्गत्वेन 'संबन्धी यथा दर्शितो विषयः से न वाच्यत्वेन प्रतीयते अपि त्वौपाधिकत्वेन । प्रतिपाद्यस्य च विषयस्य लिङ्गित्वे तद्विषयाणां विप्रतिपत्तीनां लौकिकानां लौकिकैरेव क्रियमाणानामभावः प्रसज्येतेति । एतच्चोक्तमेव । यथा च वाच्यविषये प्रमाणान्तरानुगमेन सम्यक्त्वप्रतीतौ क्वचित्क्रियमाणायां तस्य प्रमाणान्तरविषयत्वे सत्यपि न शब्दव्यापारविषयताहानिस्तद्वयङ्ग्यस्यापि । काव्यविषये च व्यङ्ग्यप्रतीतीनां सत्यासत्यनिरूपणस्याप्रयोजकत्वमेवेति तत्र प्रमाणान्तरव्यापारपरीक्षोपहासायैव संपद्यते । तस्माल्लिङ्गिप्रतीतिरेव सर्वत्र व्यङ्ग्यप्रतीतिरिति न शक्यते वक्तुम् । यत्त्वनुमेयरूपं व्यङ्ग्यविषयं शब्दानां व्यञ्जकत्वं तद्धवनिव्यवहारस्याप्रयोजकम् । अपि तु व्यञ्जकत्वल
कत्वेनेति । वक्रिच्छा हि वाच्यादेरर्थस्य विशेषणत्वेन भाति । प्रतिपाद्यस्येति । अर्थाव्यङ्ग्यस्य । लिङ्गित्व इति । अनुमेयत्व इत्यर्थः । लौकिकैरेवेति । इच्छायां लोको न विप्रतिपद्यतेऽर्थे तु विप्रतिपत्तिमानेव । ननु यदा व्यङ्ग्योऽर्थः प्रतिपन्नस्तदा सत्यत्वनिश्चयोऽस्यानुमानादेव क्रियत इति पुनरप्यनुमेय एवासौ । मैवम् । वाच्यस्यापि हि सत्यखनिश्चयोऽनुमानादेव । यदाहुः-'आप्तवादाविसंवादसामान्यादनुमानता' इति । न चैतावता वाच्यस्य प्रतीतिरानुमानिकी किं तु तद्गतस्य ततोऽधिकस्य सत्यत्वस्य तद्यङ्ग्यत्वेऽपि भविष्यति । एतदाह-यथा चेत्यादिना । एतच्चाभ्युपगम्योक्तं न त्वनेन प्रयोजनमिति। काव्यविषये चेति । अप्रयोजकमिति । नहि तेषां वाक्यानामग्निटोमादिवाक्यवत्सत्यार्थप्रतिपादनद्वारेण प्रवर्तकवाय प्रामाण्यमन्विष्यते । प्रतीतिमात्रपर्यवसायित्वात् । प्रतीतेरेव चालौकिकचमत्काररूपाया व्युत्पत्त्यङ्गत्वात् । एतच्चोतं वितत्य प्राक् । उपहासायैवेति । नायं सहृदयः केवलं शुष्कतर्कोपक्रमकर्कशहृदयः प्रतीति परामष्टुं नालमित्येष उपहासः । नन्वेवं तर्हि मा भूद्यत्र यत्र व्यञ्जकता तत्र तत्रानुमानलम् , यत्र यत्रानुमानत्वं तत्र तत्र व्यञ्जकत्वमिति कथमपर्यत इत्याशङ्याह-यत्त्व. नुमेयेति । तद्यञ्जकं न ध्वनिलक्षणम् । अमिप्रायव्यतिरिक्तविषयव्यापारादिति भावः । नन्वभिप्रायविषयं यद्यञ्जकत्वमनुमानैकयोगक्षेमं तच्चेन्न प्रयोजनं ध्वनिव्यवहारस्य तत्किमर्थं तत्पूर्वमुपक्षिप्तमित्याशङ्कयाह-अपि विति । एतदेव संक्षिप्य निरूपयति
१. 'तेषां संबन्धी ' क-ख. २. 'असौ' ग. ३. 'गमनेन' क-ख. ४. 'कार्य' ग. ५. 'वाच्यव्यङ्गय' क-ख. ६. 'सत्यत्वासत्यत्वनिरूपणाप्रयोजक' ग. ७. शक्यं' क-ख.
१. 'हीत्यस्य सत्यनिश्चयो' ग. २. 'इत्याह-' क-ख.