SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ २०२ काव्यमाला। प्रतिपाद्यश्च । तत्रानुमेयो विवक्षालक्षणः । विवक्षा च शब्दखरूपप्रकाशनेच्छा शब्देनार्थप्रकाशनेच्छा चेति द्विप्रकारा । तत्राद्या न शाब्दव्यवहाराङ्गम् । सा हि प्राणित्वमात्रप्रतिपत्तिफला । द्वितीया तु शब्दविशेषावधारणावसितव्यवहितापि शब्दकारणव्यवहारनिर्बन्धनम् । ते तु द्वे अप्यनुमेयो विषयः शब्दानाम् । प्रतिपाद्यस्तु प्रयोक्तुरर्थप्रतिपादनसमीहाविषयीकृतोऽर्थः । स च द्विविधः वाच्यो व्यङ्ग्यश्च । प्रयोक्ता हि कदाचित्वशब्देनार्थ प्रकाशयितुं समीहते कदाचित्वशब्दानभिधेयत्वेन प्रयोजनापेक्षया कयाचित् । स तु द्विविधोऽपि प्रतिपाद्यो विषयः शब्दानां न लिङ्गितया खरूपेण प्रकाशते अपि तु कृत्रिमेणाकृत्रिमेण वा संबन्धान्तरेण । विवक्षाविषयत्वं हि तस्यार्थस्य शब्दर्लिङ्गतया प्रतीयते न तु खरूपम् । यदि हि लिङ्गितया तत्र शब्दानां व्यवहारः स्यात्तच्छब्दार्थे सम्यङ् मिथ्यात्वादि विवादा एव न प्रवर्तेरन् । धूमादिलिङ्गानुमितानुमेयान्तरवत् । व्यङ्ग्यश्वार्थो वाच्यसामर्थ्याक्षिप्ततया वाच्यवच्छब्दस्य संबन्धी भवत्येव । साक्षादसाक्षाद्भावो हि संबन्धस्याप्रयोजकः । वाच्यवाचकभावाश्रयत्वं च व्यञ्जकत्वस्य प्रागेव दर्शितम् । तस्माद्वक्राभिप्रायरूपव्यङ्ग्ये लिङ्गतया शब्दानां व्यापारः । तद्विषयीकृते तु प्रतिपाद्यतया । प्रतीयमाने तस्मिन्नभिप्रायरूपे च वाचकत्वेनैव व्यापारः संबन्धान्तरेण वा । न तावद्वाचकत्वेन । यथोक्तं प्राक् । संबन्धान्तरेण व्यञ्जकत्वमेव । न च व्यञ्जकत्वं यिषायां कर्मभूतोऽर्थस्तत्र शब्दः कारणत्वेन विवक्षितः न वसावनुमेयः । तद्विषया हि प्रतिपिपादयिषैव केवलमनुमीयते । न च तत्र शब्दस्य कैरणत्वेनैव लिङ्गस्येतिकर्तव्यता पक्षधर्मग्रहणवादिका नास्ति अपि खन्यैव संकेतस्फुरणादिका । तन्न । तत्र शब्दो लिङ्गमितिकर्तव्यता च द्विधा । एकयामिधाव्यापारं करोति द्वितीयया व्यञ्जनाव्यापारम् । तदाह-तत्रेत्यादिना। कयाचिदिति । गोपनकृतसौन्दर्यादिलाभाभिसंधानादिकयेत्यर्थः । शब्दार्थ इति । अनुमानं हि निश्चयखरूपमेवेति भावः । औपाधि १. 'सिताव्यवहितमपि' क-ख. २. 'निबन्धनी' क-ख. ३. 'शब्दात्' ग. ४. 'व्यापारः' क-ख. ५. 'व्यङ्ग्यव्यञ्जकत्वस्य' क-ख. ६. 'रूप एव व्यङ्ग्यो' क-ख. ७. 'अभिप्रायरूपेऽनमिप्रायरूपे वा' क-ख. १. 'यिषायाः'क-ख. २. 'कारणखयो।' क; 'करणत्वयैव' ग.३. 'स्मरणादिका'क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy