________________
३ उयोतः] ध्वन्यालोकः।
२०१ व्यापारनिबन्धाश्च विदग्धपरिषत्सु विविधा विभाव्यन्ते । तामुपहास्यतामास्मनः परिहरन्कथमभिसंदधीत सचेताः (ब्रूयात्) अस्त्यभिसंधानावसरे व्यञ्जकत्वं शब्दानां गमकत्वं तच्च लिङ्गत्वमतश्च व्यङ्ग्यप्रतीतिर्लिङ्गिप्रतीतिरेवेति लिङ्गलिङ्गिभाव एव तेषां व्यङ्ग्यव्यञ्जकभावो नापरः कश्चित् । अतश्चैतदवश्यमेव बोद्धव्यम् । यस्माद्वऋभिप्रायापेक्षया व्यञ्जकत्वमिदानीमेव त्वया प्रतिपादितम् । वऋभिप्रायश्चानुमेयरूप एव । नन्वेवमपि यदि नाम स्यात्तत्किं नश्छिन्नम् । वाचकत्वगुणवृत्तिव्यतिरिक्तो व्यञ्जकलक्षणः शब्दव्यापारोऽस्तीत्यस्माभिरभ्युपगतम् । तस्य चैवमपि न काचित्क्षतिः । तद्धि व्यञ्जकत्वं लिङ्गत्वमस्तु अन्यद्वा सर्वथा प्रसिद्धशाब्दप्रकारविलक्षणत्वं शब्दव्यापारविषयत्वं च तस्यास्तीति नास्त्येवावयोर्विवादः । न पुनरयं परमार्थो यव्यञ्जकत्वं लिङ्गत्वमेव सर्वत्र व्यङ्ग्यप्रतीतिश्च लिङ्गिप्रतीतिरेवेति । यदपि स्वपक्षसिद्धयेऽस्मदुक्तमनूदितं त्वया वऋभिप्रायस्य व्यङ्गय. त्वेनाभ्युपगमात्तत्प्रकाशने शब्दानां लिङ्गत्वमेवेति तदेतद्यथास्माभिरभिहितं तद्विभज्य प्रतिपाद्यते श्रूयताम्-द्विविधो विषयः शब्दानाम्-अनुमेयः
न्दरीभवतीत्यनेन ध्वन्यमानतायामसाधारणप्रतीतिलाभः प्रयोजनमुक्तम् । निबद्धाः प्रसिद्धाः । तानिति व्यवहारान् कः सचेता अभिसंदधीत । नाद्रियेतेत्यर्थः । लक्षणे शत्रादेशः । आत्मनः कर्मभूतस्य योपहसनीयता तस्याः परिहारेणोपलक्षितास्ताः परीजिहीर्षुरित्यर्थः । अस्तीति । व्यञ्जकत्वं नापहृते तत्त्वव्यतिरिक्तं न भवति । अपि तु लिङ्गलिङ्गिभाव एवायम् । इदानीमेवेति । जैमिनीयमतोपक्षेपे । यदि नाम स्यादिति । प्रौढवादितयाभ्युपगमेऽपि स्वपक्षस्तावन्न सिध्यतीति दर्शयति-शब्देति । शब्दस्य व्यापारः संधिविषयः शब्दव्यापारविषयः । अन्ये तु शब्दस्य यो व्यापारस्तस्य विषयो विशेष इत्याहुः । न पुनरिति । प्रदीपालोकादौ लिङ्गलिङ्गिभावे शून्योऽपि..... व्यङ्ग्यव्यञ्जकभावोऽस्तीति व्यङ्ग्यव्यञ्जकभावस्य लिङ्गलीङ्गिभावो व्यापक इति कथं तादात्म्यम् । विषय इति । शब्द उच्चरिते यावति प्रतिपत्तिस्तावान्विषय इत्युक्तः । तत्र शब्दप्रयुयुक्षा अर्थप्रतिपिपादयिषा चेत्युभय्यपि विवक्षानुमेया तावत् । यस्तु प्रतिपिपाद
१. 'इति संदधीत' ग. २. 'अतिसंधान' ग. ३. 'भाविनः परः' क-ख. ४. 'अ. त्रोच्यते । नन्वेवमपि' ग. ५. 'व्यञ्जकल' ख.
१. 'प्रयुक्तप्रतिपिपाद' ग.