________________
काव्यमाला ।
कृत्रिमशब्दार्थसंबन्धवादिनां तु युक्तिविदामनुभवसिद्ध एवायं व्यञ्जकभावः शब्दानामर्थान्तराणामिव निर्विरोधश्चेति न प्रतिक्षेप्यपदवीमवतरति । वाचकत्वे हि तार्किकाणां विप्रतिपत्तयः प्रवर्तन्ताम् किमिदं स्वाभाविकं शब्दानामाहोखित्सामयिकमित्याद्याः । व्यञ्जकत्वे तु तत्पृष्ठभाविनि भावान्तरासाधारणे लोकप्रसिद्ध एवानुगम्यमाने को विमतीनामवसरः । अलौकिके ह्यर्थे तार्किकाणामभिनिवेशाः प्रवर्तन्ते न तु लौकिके । न हि नीलमधुरादिष्वशेषलो केन्द्रियगोचरे बाधारहिते तत्त्वे परस्परं विप्रतिपन्ना दृश्यन्ते । नहि बाधारहितं नीलं नीलमिति ब्रुवन्नपरेण प्रतिषिध्यते नैतन्नीलं पीतमेतदिति । तथैव व्यञ्जकत्वं वाचकानां शब्दानामवाचकानां च गीतध्वनीनामशब्दरूपाणां च चेष्टादीनां यत्सर्वेषामनुभवसिद्धं तत्केनाभिश्रूयते (पहूयते ? ) । अशब्दमर्थं रमणीयं हि सूचयन्तो व्याहारास्तथा
२००
ञ्जकत्वयोः । अविद्यापदे तु तैरपि व्यापारान्तरमभ्युपगतमेव । एतच्च प्रथमोद्दयोते वितत्य निरूपितम् । एवं वाक्यविदां पदविदां चाविमतिविषयत्वं प्रदर्श्य प्रमाणतत्त्वविदां तार्किकाणामपि न युक्तात्र विमतिरिति दर्शयितुमाह- कृत्रिमेति । कृत्रिमः संकेत - मात्रस्वभावः परिकल्पितः शब्दार्थयोः संबन्ध इति ये वदन्ति नैयायिक सौगतादयः । यथोक्तम्—न सामवायिकत्वाच्छब्दार्थप्रत्ययस्येति तथा शब्दार्थसंकेतितं प्राहुरिति । अर्थान्तराणामिति दीपादीनाम् । नन्वनुभवेन द्विचन्द्राद्यपि सिद्धं तेच विमतिपदमित्याशक्याह - निर्विरोधश्चेति । अविद्यमानो विरोधो यस्य विरोधो बाधकात्मको द्वितीयेन ज्ञानेन यस्य । तेनानुभवसिद्धश्चाबाधितश्चेत्यर्थः । अनुभवसिद्धं च न प्रतिक्षेप्यं यथा वाचकत्वम् । ननु तत्राप्येषां विमतिः । नैतत् । नहि वाचकत्वे सा विमतिः, अपि तु वाचकत्वस्य नैसर्गिकत्वकृत्रिमत्वादौ तदाह – वाचकत्वे हीति । नन्वेवं व्यञ्जकत्वस्यापि धर्मान्तरमुखेन विप्रतिपत्तिविषयतापि स्यादित्याशङ्कयाह - व्यञ्जकत्वे त्विति । भावान्तरेति । अक्षिनिकोचादेः सांकेतिकत्वं चक्षुरादि तैस्यायोग्यतेति दृष्टा काममस्तु संशयः शब्द्स्याभिधेयप्रकाशने व्यञ्जकत्वं तु यादृशमेकरूपं भावान्तरेषु तादृगेव प्रकृतेऽपीति निश्चितैकरूपे कः संशयस्यावकाश इत्यर्थः । नैतन्नीलमिति नीले हि न विप्रतिपत्तिः । अपि तु प्राधानिकमिदं पारमाणवमिदं ज्ञानमात्रमिदमतितुच्छ मिति तत्सृष्टौ लौकिक्य एव विप्रतिपत्तयः । वाचकानामिति । ध्वन्युदाहरणेष्विति भावः । अश ब्दमिति । अभिधाव्यापारेणास्पष्टमित्यर्थः । रमणीयमिति । यगोप्यमानतयैव सु
१. ‘हि’ ग. २. ‘निवेशः प्रवर्तते' ग. ३. 'द्रूयते' ग. ४. 'व्यवहारास्तथा व्यवहारानिबद्धाश्चानिबद्धाश्च' क-ख.
१. ‘शब्दः संकेतितानां' क ख २. 'न च विमत्यापादनं' क-ख. ३. 'वा बोधात्मको' क-ख. ४. ‘च प्रक्षेप्यं' क ख ५. 'कस्यानादिर्योग्यतेति' क- ख.