________________
२०६
काव्यमाला। दाहृतम् 'अनुरागवती संध्या' इत्येवमादि । तस्यैव स्वयमुक्त्या प्रकाशीकृतत्वेन गुणभावः । यथोदाहृतम्—'संकेतकालमनसं' इत्यादि । रसादिरूपव्यङ्गयस्य गुणीभावे रसवदलंकारो दर्शितः । तंत्र च तेषामाधिकारिकवाक्यापेक्षया गुणीभावो विवाहप्रवृत्तभृत्यानुयायिराजवत् । व्यङ्ग्यालंकारस्य गुणीभावे दीपकादिर्विषयः । तथा
प्रसन्नगम्भीरपदाः काव्यबन्धाः सुखावहाः।
ये च तेषु प्रकारोऽयमेवं योज्यः सुमेधसा ॥ ३६॥ ये चैते परिमितखरूपा अपि प्रकाशमानास्तथा रमणीयाः सन्तो विवे
रीकृतनदी विषयेयमुक्तिरीति सहृदयाः । तत्रापि चोक्तप्रकारेणैव योजना। यदि वा नदीसंनिधौ नानावतीर्णयुवतिविषया । सर्वथा तावद्विस्मयमुखेनेयति व्यापाराद्गुणता व्यङ्ग्यस्य । उदाहृतमिति । एतच्च प्रथमोध्योत एव निरूपितम्। अनुरागशब्दस्य चाभिलाषे तदुपरक्तत्वलक्षणया लावण्यशब्दवत्प्रवृत्तिरित्यभिप्रायेणात्यन्ततिरस्कृतवाच्यत्वमुक्तम् । तस्यैवेति वस्तुमात्रस्य । रसादीति । आदिशब्देन भावादयः रसवच्छब्देन प्रेयखिप्रभृतयोऽलंकारा उपलक्षिताः । नन्वत्यर्थं प्रधानभूतस्य रसादेः कथं गुणीभावः, गुणीभावे वा कथमचारुत्वं न स्यादित्याशङ्कय प्रत्युत सुन्दरता भवतीति प्रसिद्धदृष्टान्तमुखेन दर्शयति-तत्र चेति । रसवदाद्यलंकारविषये । एवं वस्तुनो रसादेश्च गुणीभावं प्रदर्यालंकारात्मनोऽपि तृतीयस्य व्यङ्ग्यप्रकारस्य तं दर्शयति-व्यङ्गयालंकारस्येति । उपमादेः । एवं प्रकारत्रयस्यापि गुणीभाव........ बहुतरलक्ष्यव्यापकतास्येति दर्शयितुमाह-तथेति । प्रसन्नानि प्रसादगुणयोगाद्गभीराणि च व्यङ्ग्यार्थापेक्षकत्वत्पदानि येषु । सुखावहा इति चारुत्वहेतुः । तत्रायमेव प्रकार इति भावः । सुमेधसेति । यस्त्वेतं प्रकारं तत्र योजयितुं न शक्तः स परमलीकसहृदयभावनामुकुलितलोचनोक्त्योपहसनीयः स्यादिति भावः । लक्ष्मीः सकलजनाभिलाषभूमिर्दुहिता । जामाता हरिः । यः समस्तभोगापवर्गदानसततोद्यमीः । तथा गृहिणी गङ्गा । यस्याः सममिलषणीये सर्वस्मिन्वस्तुन्यनपहत उपायभावः । अमृतमृगाङ्कौ च सुतौ । अमृतमिह वारुणी । तेन गङ्गास्नानहरिचरणाराधनाद्युपायशतलब्धाया लक्ष्म्याश्चन्द्रोदयपानगोष्ठथुपभोगलक्षणं मुख्यं फलमिति त्रैलोक्यसारभूतता प्रतीयमाना सती अहो कुटुम्बं महोदधेरित्यहोशब्दाच्च गुणीभावमभ्येति एवं निरैलंकारेषूत्तानतायां तुच्छतयैव भासमानममुनान्तःसारेण काव्यं पवित्रीकृतमित्युक्त्वालंकारस्याप्यनेनैव
१. 'रसवदलंकारविषयः प्राक्प्रदर्शितः' क-ख. २. 'तत्र च रसानामाधि' क-ख. ३. 'प्रकाशमानविततार्थ' क-ख.
१. क-ख-पुस्तकयोः 'अलंकारात्मनो' इत्यारभ्य 'गुणीभाव...' इत्यन्तं पाठस्युटितः. २. 'अनुभवति' क-ख. ३. 'निरलंकारं' क-ख..