________________
३ उड्योतः] ध्वन्यालोकः ।
२०५ किनां सुखावहाः काव्यबन्धास्तेषु सर्वेष्वेवायं प्रकारो गुणीभूतव्यङ्गयो नाम योजनीयः । यथा
'लच्छी दुहिदा जामाउओ हरी तंस घरिणिआ गङ्गा ।
आमिअमिअङ्का अ सुआ अहो कुडम्बं महोअहिणो ।' वाच्यालंकारवर्गोऽयं व्यङ्गयांशानुगमे सति ।
प्रायेणैव परां छायां बिभ्रल्लक्ष्य निरीक्ष्यते ॥ ३७॥ वाच्यालंकारवर्गोऽयं व्यङ्गयांशस्यालंकारस्य वस्तुमात्रस्य यथायोगमनुगमे सति च्छायातिशयं बिभ्रल्लक्षणकारैरेकदेशेन दर्शितः । स तु तथारूपः प्रायेण सर्व एव परीक्ष्यमाणो लक्ष्ये निरीक्ष्यते । तथा हि दीपकसमासोक्त्यादिवदन्येऽप्यलंकाराः प्रायेण व्यङ्ग्यालंकारवस्त्वन्तरसंस्पशिनो दृश्यन्ते । यतः प्रथमं तावदतिशयोक्तिगर्भता सर्वालंकारेषु शक्यक्रिया । कृतैव च सा महाकविभिः कामपि काव्यच्छविं पुष्यतीति कथं ह्यतिशययोगिता खविषयौचित्येन क्रियमाणा सती काव्ये नोकर्षमावहेत् । भामहेनाप्यतिशयोक्तिलक्षणे यदुक्तम्
च रम्यत्वमिति दर्शयति-वाच्येति । अंशत्वं गुणत्वमत्र । एकदेशेनेति । एकदेशविवर्तिरूपकमनेन दर्शितम् । एकदेशविवर्तिरूपके 'राजहंसैरवीज्यन्त शरदीव सरोनृपाः' इत्यत्र हंसानां यच्चारुत्वं प्रतीयमानं.........."प्राप्तमलंकारैर्यावदेव दर्शितं...... तावदमुना द्वारेण सूचितोऽयं प्रकार इत्यर्थः । अन्ये त्वेकदेशेन वाच्यविभागवैचिव्यमात्रेणात्यनुद्भिन्नमेव व्याचचक्षिरे । व्यङ्ग्यं च यदलंकारान्तरं च वस्त्वन्तरं च तत्स्पृशत एवात्मनः संस्काराय श्लिष्यन्तीति ते तथा । महाकविभिरिति कालि. दासादिमिः । काव्यशोभां पुष्यतीति यदुक्तं तत्र हेतुमाह-कथं हीति । हिशब्दो हेतौ । अतिशययोगिता कथं नोत्कर्षमावहेत् । काव्ये नास्त्येवासौ प्रकार इत्यर्थः । खविषये यदौचित्यं तेन चेद्धदयस्थितेन तामतिशयोक्तिं कविः करोति । यथा भद्देन्दुराजस्य–'यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने यद्गात्राणि दरिद्रति प्रतिदिनं लूनाब्जिनीनालवत् । दूर्वाकाण्डबिडम्बकश्च निबिडो यत्पाण्डिमा
१. 'पूआ' क-ख. २. 'व्यङ्गयस्यांशस्यालंकारस्य वा यथायोग' ग. ३. 'व्यङ्ग्यालंकारान्तरसंस्पर्शि' क-ख.
१. 'गुणमात्रम्' ग. २. क-ख-पुस्तकयोः 'यच्चारुत्वं' इत्यारभ्य 'दर्शितं......" इत्यन्तः पाठो नास्ति. ३. 'स्पृशन्ति खात्मनः' क-ख. ४ 'योग्यता' ग. ५. 'केनचित्' क-ख. ६. 'दून' क-ख.