________________
२०८
काव्यमाला। • 'सैषा सर्वत्र वक्रोक्तिरनयार्थो विभाव्यते ।
___ यत्नोऽस्यां कविना कार्यः कोऽलंकारोऽनया विना ॥ इति । तत्रातिशयोक्तिर्यमलंकारमधितिष्ठति कविप्रतिभावशात्तस्य चारुत्वातिशययोगोऽन्यस्य त्वलंकारमात्रतैवेति सर्वालंकारशरीरखीकरणयोग्यत्वेनाभेदोपचारात्सैव सर्वालंकाररूपेत्ययमेवार्थोऽवगन्तव्यः । तस्याश्चालंकारान्तरसंकीर्णत्वं कदाचिद्वाच्यत्वेन कदाचियङ्गयत्वेन । व्यङ्गयत्वमपि कदाचित्रागण्डयोः कृष्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः ॥' अत्र हि भगवतो मन्मथवपुषः सौभाग्यविषयः संभाव्यत एवायमतिशय इति तत्काव्ये लोकोत्तरैव शोभोल्लसति । अनौचित्येन तु शोभा लीयत एव । यथा—'अल्पं निर्मितमाकाशमनालोच्यैव वेधसा । इदमेवंविधं भावि भवत्याः स्तनजृम्भणम् ॥ इति । नन्वतिशयोक्तिः सर्वालंकारेषु व्यङ्ग्यतयान्तीनैवास्त इति यदुक्तं तत्कथम् । यतो भामहोतिशयोक्तिं सर्वालंकारसामान्यरूपामवादीत् । न च सामान्यं शब्दविशेषप्रतीतेः पृथग्भूततया पश्चात्तनत्वेन चकास्तीति कथमस्य व्यङ्ग्यवमित्याशङ्कयाह-भामहेनेति । भामहेन यदुक्तं तत्राप्ययमेवार्थोऽवगन्तव्य इति दूरेण संबन्धः । किं तदुक्तम्-सैषेति । यातिशयोक्तिर्लक्षिता सैव सर्वा वक्रोक्तिरलंकारप्रकारः सर्वः । 'वक्राभिधेयशब्दोक्तिरिष्टा वाचामलंकृतिः' इति वचनात् । शब्दस्य हि वक्रता अभिधेयस्य च वक्रता लोकोत्तीर्णेन रूपेणावस्थानमित्ययमेवासावलंकारस्यालंकारान्तरभावः । लोकोत्तरेण चैवातिशयः । तेनाक्तिशयोक्तिः सर्वालंकारसामान्यम् । तथा ह्यनयातिशयोक्त्यार्थः सकलजनोपभोगपुराणीकृतोऽपि विचित्रतया भाव्यते । तथा प्रमदोद्यानादिर्विभावतां नीयते विशेषेण च भाव्यते रसमयीक्रियत इति । (तावतैवोक्तं कोऽसावित्याह-अभेदोपचारात्सैवालंकाररूपेति ।) उपचारे प्रयोजनमाह-अतिशयोक्तिरित्यादिना अलंकारमात्रतैवेत्यन्तेन। मुख्यार्थबाधोऽप्यत्रैव दर्शितः कविप्रतिभावशादित्यादिना।अयं भावः–यदि तावदतिशयोक्तेः सर्वालंकारेषु सामान्यरूप ता सा तर्हि तादात्म्यपर्यवसायिनीति तद्व्यतिरिक्तो नैवालंकारो दृश्यत इति कविप्रतिभानं न तत्रापेक्षणीयं स्यात् । अलंकारमात्रं च न किंचिदृश्यते । अथ सा काव्यजीवितत्वेन तु विवक्षिता । तथाप्यनौचित्येनापि निबध्यमाना तथा स्यात् । औचित्यवती जीवितमिति चेत् औचित्यनिबन्धनं रसभावादि मुक्त्वा नान्यत्किंचिदस्तीति तदेवान्त सि मुख्यं जीवितमित्यभ्युपगन्तव्यं न तु सा । एतेन यदाहुः केचित् , औचित्यघटितसुन्दरशब्दार्थमये काव्ये किमन्येन ध्वनिनात्मभूतेन कल्पितेनेति स्ववचनमेवध्वनिसद्भावाभ्युपगमसाक्षिभूतं मन्यमानाः प्रत्युक्ताः । तस्मान्मुख्यार्थबाधादुपचारे च निमित्तप्रयोजनसद्भावादभेदोप १. 'सैवालंकार' क-ख. १. 'दृष्टे'क-ख.२. सामान्यशब्दात्'क-ख.३. कोऽसावर्थः'क-ख.४. अन्तयामि'ग.