SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ३ उक्ष्योतः] ध्वन्यालोकः। २०९ धान्येन कदाचिद्गुणभावेन । तत्राद्ये पक्षे वाच्यालंकारमार्गः । द्वितीये तु ध्वनावन्तर्भावः । तृतीये तु गुणीभूतव्यङ्गयरूपता । अयं च प्रकारोऽन्येषामप्यलंकाराणामस्ति तेषां न सर्वविषयः । अतिशयोक्तेस्तु सर्वालंकारविषयोऽपि संभवतीत्ययं विशेषः । येषु चालंकारेषु सादृश्यमुखेन तत्त्वप्रतिलम्भः यथा रूपकोपमातुल्ययोगितानिदर्शनादिषु तेषु गम्यमानधर्ममुखेनैव यत्सादृश्यं तदेव शोभातिशयशालि भवतीति ते सर्वेऽपि चारुत्वातिशययोगिनः सन्तो गुणीभूतव्यङ्गयस्यैव विषयः । समासोक्त्याक्षेपपर्यायोक्तादिषु तु गम्यमानांशाविनाभावेनैव तत्त्वव्यवस्थानाद्गुणीभूतव्यङ्गता निर्विवादेव । तत्र च गुणीभूतव्यङ्गतायामलंकाराणां केषांचिदलंकारविशेषगभेतायां नियमः । यथा व्याजस्तुतेः प्रेयोलंकारगर्भत्वे । केषांचिदलंकारमात्रगर्भतायां नियमः । यथा संदेहादीनामुपमागर्भत्वे । केषांचिदलंकाराणां परस्परगर्भतापि संभवति । यथा दीपकोपमयोः । तत्र दीपकमुपमागर्भत्वेन प्रसिद्धम् । उपमापि केदाचिद्दीपकच्छायानुयायिनी । यथा मालोपमा । तथा हि 'प्रभामहत्या शिखयेव दीपः' इत्यादौ स्फुटैव दीपकच्छाया चार एवायम् । ततश्चोपपन्नमतिशयोक्तेर्व्यङ्ग्यत्वमिति यदुक्तमैलंकाराणां खीकरणं तदेव त्रिधा विभजते-तस्याश्चेति । वाच्यत्वेनेति । सापि वाच्या भवति । यथा'अपरैव हि केयमत्र' इति । अत्र रूपकेऽप्यतिशयशब्दस्पर्श एव । अस्य त्रैविध्यस्य विषयविभागमाह-तत्रेति । तेषु प्रकारेषु मध्ये य आद्यः प्रकारस्तस्मिन् । नन्वतिशयोक्तिरेव चेदेवंभूता तत्किमपेक्षया प्रथमं तावदतिक्रमः सूचित इत्याशङ्कयाह-अयं चेति । योऽतिशयोक्तौ निरूपितोऽलंकारान्तरेऽप्यनुप्रवेशात्मकः । नन्वेवमपि प्रथममिति केनातिशयेनोक्तमित्याशङ्कयाह तेषामिति । एवमलंकारेषु तावद्यङ्ग्यस्पर्शीऽस्तीत्युक्खा तत्र किं व्यङ्ग्यत्वेन भातीति विभाग व्युत्पादयति-येषु चेति । रूपकादीनां पूर्वमेवोकं स्वरूपं निदर्शनायास्तु क्रिययैव तदर्थस्य विशिष्टस्योपदर्शनं इष्टा निदशनेति । उदाहरणम्:-'अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति । उदयः पतनायेति श्रीमतो बोधयन्नरान् ॥' प्रेयोलंकारेति । चाटुपर्यवसायिखात्तस्याः । सा चोदाहृतैव द्वितीयोड्योतेऽस्माभिः । उपमागर्भल इत्युपमाशब्देन सर्व एव तद्विशेषा रूपकादयः । अथ चौपम्यं सर्वसामान्यमिति तेन सर्वमाक्षिप्तमेव । स्फुटैवेति । 'तया स पूतश्च १. 'स्थापनात्' क-ख. २. 'काचित्' ग. ३. 'इत्यादौ विषये' ग. १. 'अलंकारान्तर' क-ख. २. 'स्पृश' ख; 'स्पृहा' ग. ३. 'अतिशयोक्तेः' ग. १९ ध्व. लो.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy