________________
२१०
काव्यमाला। लक्ष्यते तदेवं व्यङ्गयांशसंस्पर्शे सति चारुत्वातिशययोगिनो रूपकादयोऽलंकाराः सर्व एव गुणीभूतव्यङ्ग्यस्य मार्गः । गुणीभूतव्यङ्ग्यत्वं च तेषां तथाजातीयानां सर्वेषामेवोक्तानुक्तानां सामान्यम् । तल्लक्षणे सर्व एवैते सुलक्षिता भवन्ति । एकैकस्य रूपविशेषकथनेन तु सामान्यलक्षणरहितेन प्रतिपादपाठेनैव शब्दा न शक्यन्ते तत्त्वतो निर्ज्ञातुम् । आनन्त्यात् । अनन्ता हि वाग्विकल्पास्तत्प्रकारा एव चालंकाराः । गुणीभूतव्यङ्गयस्य च प्रकारान्तरेणापि व्यङ्गयार्थानुगमलक्षणेन विषयत्वमस्त्येव । तदयं ध्वनि
निभूषितश्च' इत्येकेन दीपस्थानेन दीपनाद्दीपकमत्रानुप्रविष्टम् । प्रदीपसमानतया साधारणधर्माभिधानं ह्येतदुपमायां स्पष्टेनाभिधाप्रकारेणैव । तथाजातीयानामिति । चारुखातिशयवतामित्यर्थः । सुलक्षिता इति यत्किलैषां तद्विनिर्मुक्तं रूपं न तत्काव्येऽभ्यर्थनीयम् । उपमा हि 'यथा गौस्तथा गवयः' इति । 'गौर्वाहीकः' इति । श्लेषः द्विर्वचने तन्त्रात्मकः। यथासंख्यं सूचीमालान्तरेति (?)। दीपकं 'गामश्वम्' इति । संदेहः 'स्थाणुर्वा स्यात्' इति । अपहृतिः 'नेदं रजतम्' इति । पर्यायोक्तं 'पीनो दिवा नात्ति' इति । तुल्ययोगिता 'स्थाध्वोरिच्च' इति । अप्रस्तुतप्रशंसा सर्वाणि ज्ञापकानि । यथा पदसंज्ञायामन्तवेचनम् । 'अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्न' इति । आक्षेपश्च उभयत्रविभाषासु विकल्पात्मकविशेषाभिधित्सया इष्टस्यापि विधेः पूर्व निषेधनात्प्रतिषेधेन समीकृत इति न्यायात् । अतिशयोक्तिः 'समुद्रः कुण्डिका' 'विन्ध्यो वर्धितवानर्कवागृह्णात्' इति । एवमन्यत् । न चैवमादि काव्योपयोगीति । गुणीभूतव्यङ्ग्यतैवात्रालंकारतायां मर्मभूतालक्षितात्सुष्टु लक्षयति । तथा सुपूर्ण कृत्वा लक्षिताः संगृहीता भवन्ति । अन्यथा ववश्यमव्याप्तिर्भवेत् । तदाह-एकैकस्येति । न चातिशयोक्तिवक्रोक्त्युपमादीनां सामान्यरूपवं चारुताहीनानामुपपद्यते । चारुता चैतदायत्तेत्येतदेव गुणीभूतव्यङ्ग्यवसामान्यलक्षणम् । व्यङ्ग्यस्य च चारुवं रसाभिव्यक्तियोग्यतात्मकम् , रसस्य स्वात्मनैव विश्रान्तिधाम्नसदात्मकत्वमिति नानवस्था काचिदिति तात्पर्यम् । अनन्ता हीति । प्रथमोध्योत एव व्याख्यातमेतत् 'वाग्विकल्पानामानंन्त्यात्' इत्यत्रान्तरे । ननु सर्वेष्वलंकारेषु नालंकारान्तरं व्यङ्ग्यं चकास्ति । तत्कथं गुंणीभूतव्यङ्गयेन लक्षितेन सर्वेषां संग्रहः । मैर्वम् । वस्तुमात्रं वा रसो वा व्यङ्गयं यद्गुणीभूतं भविष्यति तदेवाह-गुणीभूतेति । गुणीभू. तव्यङ्ग्यस्य चेति । प्रकारान्तरेण वस्तुरसात्मनोपलक्षितस्य । यदि वेत्थमवतरणिका-ननु गुणीभूतव्यङ्ग्येनालंकारा यदि लक्षितास्तर्हि लक्षणं वक्तव्यं किमिति नोक्त. १. 'उपलक्ष्यते' क-ख. २. 'रूपकाद्यलंकाराः' ग. ३. 'उक्तानां' ख; 'उक्कानुयुक्तानां ग.
१. 'प्रदीयमानतया' ग. २. 'पदम्' क-ख. ३. 'व्यङ्ग्यवं च' क-ख. ४. 'चैव' क-ख. ५. 'सह' ग.