________________
३ उच्योतः ]
ध्वन्यालोकः ।
२११
निष्पन्दरूपो द्वितीयोऽपि महाकविविषयोऽतिरमणीयो लक्षणीयः सहृदयैः । सर्वथा नास्त्येव सहृदयहृदयहारिणः काव्यस्य स प्रकारो यत्र न प्रतीयमानार्थसंस्पर्शेन सौभाग्यम् । तदिदं काव्यरहस्यं परमिति सूरिभिर्भावेनीयम् । मुख्या महाकवि गिरा मैलं कृतिभृतामपि । प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम् ॥ ३८ ॥ अनया सुप्रसिद्धोऽप्यर्थः किमपि कामनीयकमानीयते । तद्यथा'विस्रम्भोत्था मन्मथाज्ञाविधाने ये मुग्धाक्ष्याः केऽपि लीलाविलासाः । अक्षुण्णास्ते चेतसा केवलेन स्थित्वैकान्ते संततं भावनीयाः ॥ इत्यत्र केऽपीत्यनेन पदेन वाच्यमस्पष्टमभिदधता प्रतीयमानमक्लिष्टमनन्तमर्पयता का छाया नोपपादिता ।
·
मित्याशङ्कयाह – गुणीभूतेति । विषेयत्वमिति यावत् । तेन लक्षणीयत्वं ध्वनिव्यतिरिक्तो यः प्रकारो व्यङ्ग्येनार्थानुगमो नाम तदेव लक्षणं तेनेत्यर्थः । व्यक्त्ये लक्षिते तद्गुणीभावे च निरूपिते किमन्यदस्य लक्षणं क्रियतामिति तात्पर्यम् । एवं 'काव्यस्यात्मा ध्वनिः' इति निर्वैह्योपसंहरति — तदय मित्यादिना सौभाग्यमित्यन्तेन । यत्प्रागुक्तं सकलसत्कविकाव्योपनिषद्भूतमिति तन्न प्रतारणमात्रमर्थवादरूपं मन्तव्यमिति दर्शयितुं तदिदमिति । मुख्या भूषेत्यलंकृतिभृताम् । अपिशब्दादलंकारशून्यानामपीत्यर्थः । प्रतीयमानकृता छाया शोभा सा च लज्जासदृशी गोपनासारसौन्दर्य प्राणत्वम् । अलंकारधारिणीनामपि नायिकानां लज्जा मुख्यं भूषणम् । प्रतीयमानच्छाया अन्तर्मदनोद्भेदजहृदय सौन्दर्यरूपा या । लज्जा ह्यन्तरुद्भिन्नमान्मथविकारजुगोपयिषारूपा मदनविजृम्भैव । वीतरागाणां यतीनां कौपीनापसारणेऽपि त्रपाकलङ्कादर्शनात् । तथा हि कस्यापि कवेः – 'कुरङ्गीवाङ्गानि -' इत्यादिश्लोकः । तथा प्रतीयमानस्य प्रियतमाभिलाषानुनाथनप्रभृती ( ? ) छाया कान्तिः । यथा शृङ्गाररसतरङ्गिणी हि लजावरुद्धा निर्भरतया तांस्तान्विलासान्नेत्रगात्रविकार पुरःसरान्प्रसूत इति गोपनासारसौन्दर्यलजाविजृम्भितमेतदिति भावः । विस्रम्भेति । मन्मथाचार्येण त्रिभु वनवन्द्यमानशासनेन अत एव लज्जा साध्वसध्वंसिना दत्ता येयमलङ्कनीयाज्ञा तदनुष्ठानेऽवश्यकर्तव्ये सति साध्वसलज्जात्यागेन संभोगकालोपनताः मुग्धाक्ष्या इति अकृतसंभोगपरिभावनोचितदृष्टिप्रैसरचित्रैरसपवित्रिता येऽन्ये विलासा गात्रनेत्रविकारा अत एवाक्षुण्णा
१. 'तद्धि' ग. २. 'भावनीयमिति' क-ख. ३. 'अलंकार' ग. ४. 'काव्यार्थ ः ' ५. ' प्रतीयमानत्वं' क-ख.
क-ख.
१. ‘विषयत्वमिति लक्षणीयत्वप्रकारो व्यङ्ग्येनार्थेनानुगमो नाम' क ख २. 'निर्वार्य' क; 'निर्धार्य' ख. ३. 'परम्परारूपान्' ग. ४. 'विस्रम्भ' क ख ५. 'प्रसरपवित्रिता' ६. 'चित्तरस' ख. ७. 'विहाराः ' ग.
ग.