SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १७२ काव्यमाला । ननु येषां रेसानां परस्पर विरोधः यथा – वीरशृङ्गारयोः शृङ्गारहास्ययो रौद्रशृङ्गारयोर्वीराद्भुतयोर्वीररौद्रयो रौद्रकरुणयोः शृङ्गाराद्भुतयोर्वा तत्र भवत्वङ्गाङ्गिभावः । तेषां तु स कथं भवेद्येषां परस्परं बाध्यबा - धकभावः । यथा— शृङ्गारवीभत्सयोवीरभयानकयोः शान्तरौद्रयोः शान्तशृङ्गारयोर्वा इत्याशङ्कयेदमुच्यते - अविरोधी विरोधी वा रसोऽङ्गिनि रसान्तरे । परिपोषं न नेतव्यस्तथा स्यादविरोधिता ॥ २४ ॥ अङ्गिनि रसान्तरे शृङ्गारादौ प्रबन्धव्यये सति अविरोधी विरोधी वा रसः परिपोषं न नेतव्यः । तैत्राविरोधिरसस्याङ्गिरसापेक्षयात्यन्तमाधिक्यं न तत ... हास्यस्यापुरुषार्थस्वभावत्वेऽपि समधिकतररञ्जनोत्पादनेन शृङ्गाराङ्गतयैव तेथाम् । रौद्रस्यापि तेन कथंचिदविरोधः । यथोक्तम् —' शृङ्गारश्च तैः प्रसभं सेव्यते । तैरिति रौद्रप्रभृतिभिः । रक्षोदानवोद्धतमनुष्यैरित्यर्थः । केवलं नायिकाविषयमौम्यं तत्र परिहर्तव्यम् । असंभाव्यपृथिवीसंमार्जनादिजनित विस्मयतया तु वीराद्भुतयोः समावेशः । यथाह मुनिः — 'वीरस्य चैव यत्कर्म सोऽद्भुतः' इति । वीरद्धते भीमसेनादौ समावेशः । क्रोधोत्साहयोरविरोधात् । रौद्रकरुणयोरपि मुनिनैवोक्तः— ‘रौद्रस्यैव च यत्कर्म स ज्ञेयः करुणो रसः' इति । शृङ्गाराद्भुतयोरिर्ति । यथा रत्ना वल्यामैन्द्रजालिकदर्शने । शृङ्गारवीभत्सयोरिति । ययोर्हि परस्परोन्मूलनात्मकतयैवोद्भवस्तत्र कोऽङ्गाङ्गिभावः । आलम्बन निमग्नरूपतया च .......क्तिरुत्तिष्ठति । ............. तया जुगुप्सेति समानाश्रयत्वेन तयोरन्योन्यसंभवोन्मूलकत्वम् । भयोत्साहेऽप्येवमेव विरुद्धौ वाच्यौ । शान्तस्यापि तत्त्वज्ञानसमुत्थितसमस्त संसारवियनिर्वेदप्राणत्वेन सर्वतो निरीहखभावस्य विषयासक्तिजीविताभ्यां रतिक्रोधाभ्यां विरोध एव । अविरोधी विरोधी वेति । वाग्रहणस्यायमभिप्रायः - अङ्गिरसापेक्षया यस्य रसान्तरस्योत्कर्षो निबध्यते तदाऽविरुद्धोऽपि रसो निबद्धश्चोद्यावहः । अथ तु युक्ताङ्गिनि रसेऽङ्गभावतयान्योपपत्तिर्घटते तद्विरुद्धोऽपि रसो वक्ष्यमाणेन विषयभेदादियोजनेनोपनिबध्यमानो न दोषावह इति विरोधाविरोधाव किंचित्करौ । ..... विनिवेशनप्रकार एवेत्यवधातव्यमिति । अङ्गिनीति सप्तम्यनादरे । अङ्गिनं रसविशेषमनादृत्य न्यक्कृयाङ्गभूतो न पोषयितव्य इत्यर्थः । अविरोधितेति । निर्दोषतेत्यर्थः । परिपोषपरिहारे त्रीन्प्रकारानाह — तत्रेति । ननु न्यूनत्वं कर्तव्यमिति वाध्येऽधिकस्य का संभावना १. 'रसादीनां क ख २. 'भाव एव' क - ख. ३. ' तत्राह - विरोधिनो रसस्य' ग. १. ‘हास्यस्य स्वयं पुरुषार्थस्वभावत्वे' ग. २. 'तथात्वात् ' क-ख. ३. 'यथाह' इत्यारभ्य ‘समावेशः' इत्यन्तं कख - पुस्तकयोर्नास्ति. ४. 'अपि' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy