________________
काव्यमाला ।
विप्रलम्भशृङ्गारकरुणयोस्तु माधुर्यमेव प्रकर्षवत् । सहृदयहृदयावर्ज -
१
८०
नातिशयनिमित्तत्वादिति ।
'रौद्रादयो रसा दीया लक्ष्यन्ते काव्यवर्तिनः । तद्व्यक्तिहेतू शब्दार्थावाश्रित्योजो व्यवस्थितम् ॥ १० ॥' रौद्रादयो हि रसाः परां दीप्तिमुज्ज्वलतां जनयन्तीति लक्षणया त एव दीप्तिरित्युच्यते । तत्प्रकाशनपरः शब्दो दीर्घसमासरचनालंकृतं वाक्यम् ।
यथा
-
'चञ्चद्भुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानावबद्धघनशोणितशोणपाणि
रुतंसयिष्यति कचांस्तव देवि भीमः ॥'
भावः । आर्द्रतामिति । सहृदयस्य चेतः स्वाभाविकमना विष्टत्वात्मकं काठिन्यक्रोधादिदीप्तरूपं विस्मयहासादिरागित्वं च त्यजतीत्यर्थः । अधिकमिति । क्रमेणेत्याशयः । तेन करुणेऽपि सर्वथैव चित्तं द्रवतीत्युक्तं भवति । ननु करुणेऽपि यदि मधुरिमास्ति तर्हि पूर्व कारिकायां शृङ्गार एवेत्येवकारः किमर्थः । उच्यतेनानेन रसान्तरं व्यवच्छिद्यते । अपि त्वात्मभूतस्य रसस्यैव परमार्थतो गुणा माधुर्यादयः, उपचारेण तु शब्दार्थयोरित्येवकारेण द्योत्यते । वृत्त्यार्थमाह – विप्रलम्भेति । रौद्रेत्यादि । आदिशब्दः प्रकारे । तेन वीराद्भुतयोरपि ग्रहणम् । दीप्तिः प्रतिपत्तुर्हृदये विभासविस्तार प्रज्वलत्खभावा । सा च मुख्यतया ओजैः शब्दवाच्या । तदाखादमया रौद्रायास्तया दीप्त्याखादविशेषात्मिकया कार्यरूपया लक्ष्यन्ते रसान्तरात्पृथक्तया । तेन कारणे कार्योपचाराद्रौ - द्रादिरेवौर्जंःशब्दवाच्यः । ततो लक्षितलक्षणया तत्प्रकाशनपरः शब्दो दीर्घसमासरचनवाक्यरूपोऽपि दीप्तिरित्युच्यते । उदाहरति-यथा चञ्चदिति । चञ्चद्भयां वेगादावर्तमानाभ्यां भुजाभ्यां भ्रमिता येर्य चण्डा दारुणा गदा तया योऽभिंतः सर्वत ऊर्वो
१. ‘इति’ ग-पुस्तके नास्ति २. 'दीप्ता' क ख ३. 'लक्षणया त एव' क-ख-पुस्तकयोर्नास्ति.
१. 'काठिन्यमत्क्रोधादि' क ख २. 'विकास' क ख ३. 'तेजः' क- ख. ४. 'विशेषात्मतया 'क. ५. 'कारणेन कार्येऽपि च रौद्रा' क ख ६. 'तेजः' क- ख. ७. ‘शब्दो' क-ख पुस्तकयोर्नास्ति. ८. 'येयं' क-ख- पुस्तकयोर्नास्ति ९. ' योऽभिभूतः सर्वत' क- ख, 'योऽभिधातः संतत' ग.