________________
२ उझोतः]
ध्वन्यालोकः। तथा च'शृङ्गार एव मधुरः परः प्रह्लादनो रसः।
तैन्मयं काव्यमाश्रित्य माधुर्य प्रतितिष्ठति ॥८॥ शृङ्गार एव रसान्तरापेक्षया मधुरः प्रह्लादहेतुत्वात्प्रकाशनपरः । शब्दार्थयोः काव्यस्य स माधुर्यलक्षणो गुणः। श्रेव्यत्वं पुनरोजसोऽपि साधारणमिति।
'शृङ्गारे विप्रलम्भाख्ये करुणे च प्रकर्षवत् । माधुर्यमार्द्रतां याति यतस्तत्राधिकं मनः ॥९॥
गुणा आश्रिता इत्याशयाह-तथा चेत्यादि । तेन वक्ष्यमाणेन बुद्धिस्थेन परिहार प्रकारेणोपपद्यते चैतदित्यर्थः । शृङ्गार एवेति । मधुर इत्यत्र हेतुमाह-परः प्रह्लादन इति । रतौ हि समस्तदेवतिर्यकरादिजातिष्वविच्छिन्नैव वासनास्त इति न कश्चित्तंत्र तादृग्यो न हृदयसंवादमयः। रतेरपि हि तचमत्कारोऽस्त्येव । अत एव मधुर इत्युक्तः । मधुरो हि शर्करादिरसो विवेकिनो वा स्वस्थस्यातुरस्य वा झटिति रसनानिपतितस्तावदभिलषणीय एव भवति । तन्मयमिति । स शृङ्गार आत्मलेन प्रकृतो यत्र व्यङ्ग्यतया । काव्यमिति । शब्दार्थावित्यर्थः । प्रतितिष्ठतीति । प्रतिष्ठां गच्छतीति यावत् । एतदुक्तं भवति-वस्तुतो माधुर्य नाम शृङ्गारादे रसस्यैव गुणः । तन्मधुराभिव्यञ्जकयोः शब्दार्थयोरुपचरितम् । मधुरशृङ्गाररसाभिव्यक्तिसमर्थता शब्दार्थयोर्माधुर्यमिति हि लक्षणम् । तस्माद्युक्तमुक्तं तमर्थमित्यादि । कारिकार्थ वृत्त्याह-शङ्गार इति । ननु 'श्रव्यं नातिसमस्तशब्दार्थ मधुरमिष्यते' इति माधुर्यस्य लक्षणं नेत्याह-श्रव्यत्वमिति । सर्व लक्षणमुपलक्षितम् । ओजसोऽपीति । 'यो यः शस्त्रं' इत्यत्र हि श्रव्यत्वमसमस्तख चास्त्येवेति भावः । संभोगशृङ्गारान्मधुरतरो विप्रलम्भः ततोऽपि मधुरतमः करुण इति तदभिव्यजनकौशलं शब्दार्थयोर्मधुरतरमधुरतमत्वं चेत्यभिप्रायेणाह-शृङ्गार इत्या. दि । करुणे चेति चशब्दः क्रममाह । प्रकर्षवदिति । उत्तरोत्तरं तरतमयोगेनेति
१. 'यथा च' क. २. 'एको' ग. ३. 'तद्भूयं' ग. ४. 'शब्दार्थतया' ग. ५. 'श्राव्यवं' ग. ६. 'मतः' ग.
१. 'यथा च' क. २. 'उपपद्यत एव चेत्यर्थः' ग. ३. 'शृङ्गार एवेति' क-खपुस्तकयोनोस्ति. ४. 'जातिषु च्छन्नव' क-ख. ५. "किंचित्तंत्र' क-ख. ६. 'एव' क-खपुस्तकयोनास्ति. ७. 'उपचित्तं माधुर्यम्' क-ख. ८. 'तल्लक्षणम्' क-ख. ९. 'कारिका-इति' ग-पुस्तके नास्ति. १०. 'सकलं' ग. ११. 'समस्तवं चास्ति वेति' क-ख. १२. 'इत्यर्थः' क-ख.