________________
काव्यमाला। तदेवं सत्युपमादयो निर्विषयाः प्रविरलविषया वा स्युः । यस्मानास्त्येवासावचेतनवस्तुवृत्तान्तो यत्र चेतनवस्तुवृत्तान्तयोजना नास्त्यन्ततो विभावत्वेन । तस्मादङ्गत्वेन च रसादीनामलंकारता । यः पुनरङ्गी रसो भावो वा सर्वाकारमलंकार्यः स ध्वनेरात्मेति । किंच। 'तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः।
अङ्गाश्रितास्त्वलंकारा मन्तव्याः कटकादिवत् ॥ ७॥ ये तमर्थ रसादिलक्षणमङ्गिनं सन्तमवलम्बन्ते ते गुणाः शौर्यादिवत् । वाच्यवाचकलक्षणान्यङ्गानि ये ऍनराश्रितास्तेऽलंकारा मन्तव्याः । कटकादिवदिति ।
येणेति शेषः । ननु यत्र चेतनवस्तुवृत्तस्य सर्वथा नानुप्रवेशः स उपमादेविषयो भविष्यतीत्याशयाह-यमादित्यादि । स्तम्भपुलकायचेतनमपि वर्ण्यमानर्मनुभावत्वाचेतनमाक्षिपत्येव । तावत्किमत्रोच्यते । अतिजडोऽपि चन्द्रोद्यानमृतिस्त्वविश्रान्तोऽपि वर्ण्यमानोऽवश्यं चित्तवृत्तिविभावतां त्यक्त्वा काव्येऽनाख्येय एव स्यात् । शास्त्रेतिहासयोरपि वा। एवं परमतं दूषयिता खमतमेव प्रत्याम्नायोपसंहरति-तस्मादिति । यतः पैरोको विषयविभागो न युक्त इत्यर्थः । यः पुनरिति । भावो वेति । भावग्रहणात्तदाभास. तत्प्रशमादयः । सर्वाकारमिति क्रियाविशेषणम् । तेन सर्वप्रकारमित्यर्थः । अलंकार्य इत्यत्रैव, नालंकार इति भावः । अलंकार्यव्यतिरिक्तश्चालंकारोऽभ्युपगन्तव्यः । लोके तथासिद्धत्वात् । यथा गुणिव्यतिरिको गुणः । गुणालंकारव्यवहारश्च गुणिन्यलंकार्ये च सति । स चास्मत्पक्ष एवोपपन्न इत्यभिप्रायेणाह-किं चेत्यादि । न केवलमेतावद्युक्तिजातं रसस्याङ्गिले यावदन्यदपीति समुच्चयार्थः । तमर्थमिति । कौरिकाप्यभिप्रायद्वयेनैव योज्या । न केवलं प्रथमाभिप्राये प्रथमकोरिकार्थदृष्टान्ताभिप्रायेण व्याख्येयम् । एवं ऋत्तिग्रन्थोऽपि योज्यः । ननु शब्दार्थयोर्माधुर्यादयो गुणातत्कथमुक्तं रसादिकमङ्गिनं
१. "विभातलेन' क-ख. २. 'तस्मादङ्गलेन च' ग-पुस्तके नास्ति. ३. 'योगिनं ते गुणाश्रिताः' ग. ४. 'पुनस्तदाश्रिताः' ग. ५. 'कुण्डलादिवदिति' ग.
१. 'चेतनवृत्तस्य' ग. १. अनुभवत्वाचेतनमाक्षिपतीत्येव तावदत्र किमुच्यते' क-ख. ३. 'प्रभृतिखविश्रान्ती' क-ख. ४. 'विभावनां' क-ख. ५. 'इति वा' क-ख. ६. 'परोक्ते' क-ख. ७. 'यः पुनरिति' ग-पुस्तके नास्ति. ८. 'वाग्रहणात्' क-ख. ९. 'अभिप्रायद्वयेनाह' ग. १०. 'तमर्थमिति' ग-पुस्तके नास्ति. ११. 'कारिकेयमभिप्रायद्वारेणैव' क-ख. १२. 'कारिकापूर्वदृष्टा' क-ख. १३. 'ननु चकख.