SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ७७ २ उक्ष्योतः] ध्वन्यालोकः। चिन्तामौनमिवाश्रिता मधुकृतां शब्दैविना लक्ष्यते चण्डी मामवधूय पादपतितं जातानुतापेव सा ॥' यथा वा'तेषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां क्षेमं भद्र कलिन्दशैलतनयातीरे लतावेश्मनाम् । विच्छिन्ने स्मरतल्पकल्पनमृदुच्छेदोपयोगेऽधुना ते जाने जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः ॥' इत्येवमादौ विषयेऽचेतनानां वाक्यार्थीभावेऽपि चेतैनवस्तुवृत्तान्तयोजनास्त्येव । अर्थ यत्र चेतनवस्तुवृत्तान्तयोजनास्ति तत्र रसादिरलंकारः। चिन्तया मौनम् । चण्डी कोपना । एतौ श्लोको नदीलतावर्णनपरौ तात्पर्येण पुरूरवस उन्मादाक्रान्तस्योक्तिरूपौ। यथा वा-तेषामिति । हे भद्र, तेषामिति ये ममैव हृदये स्थितास्तेषाम् । गोपवधूनां गोपीनां ये विलाससुहृदो नर्मसचिवास्तेषाम् । प्रच्छन्नानुरागिणीनां हि नान्यो नर्मसुहृद्भवति । राधायाश्च सातिशयं प्रेमस्थानमित्याह-राधासंभोगानां ये साक्षाद्रष्टारः कलिन्दशैलतनया यमुना तस्यास्तीरे लतागृहाणां क्षेमं कुशलमिति काक्का प्रश्नः । एवं तं पृष्ट्वा गोपदर्शनप्रबुद्धसंस्कार आलम्बनोद्दीपनविभावस्मरणात्प्रबुद्धरतिभावमात्मगतमौत्सुक्यगर्भमाह द्वारकागतो भगवान्कृष्णः-स्मरतल्पस्य मदनशय्यायाः कल्पनार्थ मृदु सुकुमारं कृत्वा यश्छेदत्रोटनं स एवोपयोगः साफल्यम् । अथवा स्मरतल्पे यत्कल्पनं क्लुप्तिः स एव मृदुः सुकुमार उत्कृष्टश्छेदोपयोगस्त्रोटनफलंतस्मिन्विच्छिन्ने । मय्यनासीने का स्मरतल्पकल्पनेति भावः । अत एव परस्परानुरागनिश्चयगर्भमेवाह-ते जान इति । वाक्यार्थस्यात्र कर्मलम् । अधुना जरठीभवन्तीति । मयि तु संनिहितेऽनवरतकलिकोपयोगान्नेमे जीर्णताखलीकारं कदाचिदवाप्नुवन्तीति भावः । विगलन्ती नीला विज्येषामित्यनेन कतिपयकालप्रोषितस्याप्यौत्सुक्यनिर्भरवं ध्वनितम् । एवमात्मगतेयमुक्तिर्यदिवा गोपं प्रत्येव संप्रधारणोक्तिः । बहुभिरुदाहरणैर्महतो भूयसः प्रबन्धस्येति यदुक्तं तत्सूचितम् । अथेत्यादि । नीरसलमत्र मा भूदित्यभिप्रा ___१. 'दृश्यते' ग. २. 'यथा वा' ग-पुस्तके नास्ति. ३. 'सचेतन' क-ख. ४. 'अत्र यत्र' ग. १. 'राधा च सातिशयप्रेम' क-ख. २. 'कथं' ग. ३. 'त' ग-पुस्तके नास्ति. ४. 'कथितोपयोगान्ते मार्यो जीर्णता' क-ख. ५. 'नीरसत्वमानं' क-ख. ८ ध्व० लो.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy