________________
काव्यमाला। पमादीनां प्रविरलविषयता निर्विषयता वाभिहिता स्यात् । तस्मादचेतनवस्तुवृत्ते वाक्यार्थीभूते पुनश्चेतनवस्तुवृत्तान्तयोजनया यथाकथंचिद्भवितव्यम् । अथ सत्यामपि तस्यां यत्राचेतनानां वाक्यार्थीभावो नासौ रसवदलंकारस्य विषय इत्युच्यते । ननु महतः काव्यप्रबन्धस्य रसनिधानभूतस्य नीरसत्व. मभिहितं स्यात् । यथा
'तरङ्गभ्रूभङ्गा क्षुभितविहगश्रेणिरैशना .. विकर्षन्ती फेनं वसनमिव संरम्भशिथिलम् । यथाविद्धं याति स्खलितमभिसंधाय बहुशो
नंदीरूपेणेयं ध्रुवमसहना सा परिणता ॥' यथा वा'तन्वी मेघजलाईपल्लवतया धौताधरेवाश्रुभिः
शून्येवाभरणैः खकालविरहाद्विश्रान्तपुष्पोद्मा।
इति । एतद्दषयति-तहीति । तस्माद्वचनाद्धेतोरित्यर्थः । नन्वचेतनवर्णनं विषय इत्युक्तमित्याशय हेतुमाह-यस्मादिति । यथाकथंचिदिति विभावादिरूपतया । तस्यामिति । चेदनवृत्तान्तयोजनायाम् । नीरसत्वमिति । यत्र हि रसस्तत्रावश्यं रसवदलंकार इति पैरमतम् । ततो न रसवदलंकारश्चन्नूनं तत्र रसो नास्तीति परमताभिप्रायान्नीरसत्वमुक्तम् । न वस्माकं रसवदलंकाराभावे नीरसत्वम् । अपि तु ध्वन्यात्मभूतरसाभावे । तादृसोऽत्रास्त्येव । परपक्षदूषणायोदाहरति-यथा-तरङ्गेति । तरङ्गा एव भ्रूभङ्गा यस्याः । विकर्षन्ती विलम्बमानं बलादाक्षिपन्ती । वसनमंशुकम् । प्रियतमावलम्बननिषेधायेति भावः । बहुशो यत्स्खलितं येऽपराधास्तानभिसंधाय हृदयेनैकीकृत्यासहमाना मानिनीत्यर्थः । अथ च मद्वियोगपश्चात्तापासहिष्णुस्तापशान्तये नदीभावं गतेति । तन्वीति । वियोगकृशाप्यनुतप्ता चाभरणानि त्यजति । खकालो वसन्तग्रीध्मप्रायः । उपायचिन्तनाथ मौनं किमिति पादपतितमपि दयितमवधूतवत्यहमिति च
१. 'वृत्तान्ते' क-ख. २. 'वृत्तान्त' क-ख-पुस्तकयो स्ति. ३. 'नयना' क-ख. ४. 'नदीभावेन' क-ख.
१. 'तदिति' क-ख. २. 'ननु चेतन' क-ख. ३. 'नीरसत्वमिति' क-ख-पुस्तकयो स्ति. ४. 'परस्य' क-ख. ५. 'परमताभिप्रायं' क-ख. ६. 'रसो नास्त्येव' क-ख. ७. 'पर-तरङ्गेति' ग-पुस्तके नास्ति. ८. 'विरोधाः' ग. ९. 'तत्तदभि' क-ख. १०. 'उपायचिन्ता तन्मौनं चिन्तामौनं' ग.