SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ २ उझ्योतः] ध्वन्यालोकः । तत्प्रकाशनपरश्वार्थोऽनपेक्षितदीर्घसमासरचनः प्रसन्नवाचकाभिधेयः । यथा'यो यः शस्त्रं बिभर्ति खभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशययां गतो वा । यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य खयमपि जगतामन्तकस्यान्तकोऽहम् ॥' इत्यादी द्वयोरोजस्त्वम् । _तस्तेन सम्यक् चूर्णितं पुनरनुत्थानोपहतं कृतमूरुयुगलं युगपदेवोरुद्वयं यस्य तं सुयोधनमनादृत्यैव स्त्यानेनाश्यानतया न तु कालान्तरशुष्कतयावबद्धं हस्ताभ्यामविगैलद्रूपमत्यन्तमाभ्यन्तरतया घनं न तु रसमात्रस्वभावं यच्छोणितं रुधिरं तेन शोणौ लोहितौ पाणी यस्य सः । अत एव भीमः कातरत्रासदायी। तवेति । यस्यास्तत्तदपमानजातं कृतं देव्यनुचितमपि तस्यास्तव कचानुत्तंसयिष्यत्युत्तंसवतः करिष्यतीति वेणीलमपहरन्करविधृतशोणितशकलैर्लोहितकुसुमापीडेनेव योजयिष्यतीत्युत्प्रेक्षा । देवीत्यनेन कुलकलत्रखलीकारस्मरणकारिणा क्रोधस्यैवोद्दीपनविभावत्वं कृतमिति नात्र शृङ्गारशङ्का कर्तव्या । सुयोधनस्य चानादरणं द्वितीयगदाघातदानाद्यनुद्यमात् । स च संचूर्णितोरुत्वादेव । स्त्यानग्रहणेन द्रौपदीमन्युप्रक्षालने खरा सूचिता । समासेन च संततवेगवहनखभावात् तावत्येव मध्ये विश्रान्तिमलभमाना चूर्णितोरुद्वयसुयोधनानादरणपर्यन्ता प्रतीतिरेकैखेनैव भवतीत्यौद्धत्यस्य परं परिपोषिका । अन्ये तु सुयोधनस्य संबन्धि यत्स्त्यानावबद्धं घनं शोणितं तेन शोणपाणिरिति व्याचक्षते। तत्प्रकाशनपरश्वार्थः प्रसन्नैर्गमकैर्वाचकैरमिधीयमानः समासानपेक्ष्यपि दीप्तिरुच्यते। उदाहरति—य इति । खभुजयोर्गुरुर्मदो यस्य चमूनां मध्येऽर्जुनादिरित्यर्थः । पाञ्चालराजपुत्रेण धृष्टद्युम्नेन द्रोणस्य व्यापादनातंत्कुलं प्रत्यधिकः क्रोधावेशोऽश्वत्थाम्नः । तत्कर्मसाक्षीति कर्णप्रभृतिः । रणे सङ्ग्रामे कर्तव्ये यो मयि मद्विषये प्रतीपं चरति समरविघ्नमाचरति । यद्वा मयि चरति सति सङ्ग्रामे यः प्रतीपं प्रतिकूलं कृखास्ते स एवंविधो यदि सकलजगदन्तको भवति तस्याप्यहमन्तकः किमुतान्यमनुष्यस्य देवस्य वा । अत्र पृथग्भूतैरेव क्रमाद्विमृष्यमाणैरथैः पैदात्पदं क्रोधः पैरों १. 'तत्प्रकाशितश्चार्थो' क-ख. २. 'चलति' क-ख. ३. 'तयोः' ग. - १. 'चलद्रूप' क-ख. २. 'विच्युतशोणितशकलेन' ग. ३. 'देवीत्यत्र' क-ख. ४. 'अनुमानात्' ख, 'अनुद्यमः' ग. ५. 'एका घनैव' क. ६. 'औद्धत्यपरिपोषकाः' क-ख. ७. 'तत्-र्थः' क-ख-पुस्तकयो स्ति. ८. 'समासमनपेक्ष्यापि' ग. ९. 'तं प्रति' क-ख. १०. 'चलति' क-ख. ११. 'सति' क-ख-पुस्तकयो स्ति. १२. 'मानुषस्य ग. १३. 'अर्थैः' क-ख-पुस्तकयो स्ति. १४. 'पादात्पादे क्रोधात्परां' क-ख. १५. 'परां दीप्तिं गतः' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy