SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ काव्यमाल। 'समर्पकत्वं काव्यस्य यत्तु सर्वरसान्प्रति । स प्रसादो गुणो ज्ञेयः सर्वसाधारणक्रियः ॥११॥ प्रसादस्तु खच्छता शब्दार्थयोः । स च सर्वरससाधारणो गुणः सर्वरचनासाधारणश्चेति व्यङ्ग्यार्थापेक्षयैव मुख्यतया व्यवस्थितो मन्तव्यः । 'श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः । ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहृताः ॥ १२ ॥' धारामाश्रित इत्यसमस्ततैव दीप्तिनिबन्धनम् । एवं माधुर्यदीप्ती परस्परप्रतिद्वन्द्वितया स्थिते शृङ्गारादिरौद्रादिगते इति प्रदर्शकतया तत्समावेशवैचित्र्यं हास्यभयानकबीभत्सशान्तेषु दर्शितम् । हास्यस्य शृङ्गाराङ्गतया माधुर्य प्रकृष्टं विकासधर्मतया चौजोऽपि प्रकृष्टमिति साम्यं द्वयोः । भयानकस्य मग्नचित्तवृत्तिखभावत्वेऽपि विभावस्य दीप्ततया ओजः प्रकृष्टं माधुर्यमल्पम् । बीभत्सेऽप्येवम् । शान्ते तु विभाववैचित्र्यात्कदाचिदोजः प्रकृष्टं कदाचिन्माधुर्यमिति विभागः। समर्पकवं सम्यगर्पकवं हृदयसंवादेन प्रतिपत्तन्प्रति खात्मावेशेन व्यापकलम् । झगिति शुष्ककाष्ठामिदृष्टान्तेनाकलुषोदकदृष्टान्तेन च तदकालुष्यं प्रसन्नत्वं नाम सर्वरसानां गुणः । उपचारात्तु तथाविधे व्यङ्ग्येऽर्थे यच्छब्दार्थयोः समर्पकत्वं तदपि प्रसादः । तमेव व्याचष्टे-प्रसादेति । ननु रसगतो गुणस्तत्कथं शब्दार्थयोः खच्छतेत्याशझ्याह-स चेति । चशब्दोऽवधारणे । सर्वरससाधारण्यमेव गुणः । स एव च गुण एवंविधः सर्वा चेयं रचना शब्दगतार्थगता चेति समस्ता चासमस्ता च तत्र साधारणः । अर्थस्य तावत्समर्पकत्वं व्यङ्ग्यं प्रत्येव संभवति नान्यथा । शब्दस्यापि खवाच्यात्मकत्वं नाम कियदलौकिकं येन गुणः स्यादिति भावः । एवं माधुर्योजःप्रसादास्त्रयो गुणा उपपन्नाः । भामहाभिप्रायेण ते च प्रतिपन्नास्वादमया मुख्यतया तत आस्वाद्ये उपचरिता रसे ततस्तद्व्यञ्जकयोः शब्दार्थयोरिति तात्पर्यम् । एवमसत्पक्ष एव गुणालंकारव्यवहारो विभागेनोपपद्यत इति प्रदर्य नित्यानित्यदोषविभागोऽप्यस्मत्पक्ष एव संगच्छत इति दर्शयितुमाह-श्रुतिदुष्टादय इत्यादि । वान्तादयोऽप्यसभ्यस्मृतिहेतवः । श्रुतिदुष्टा अर्थदुष्टा वाक्यार्थबलादश्लीलार्थप्रतिपत्तिकारिणः । यथा-'छिन्द्रान्वेषी महांस्तब्धो घातायैवोपसर्पति' । कल्पना दुष्टा तु द्वयोः पदयोः कल्पना । यथा 'कुरु रुचिम्' इत्यत्र क्रमव्यत्यासे । श्रुतिकटुस्तु अधाक्षीत् अक्षौत्सीत् तृणेढि इत्यादि । शृङ्गार इत्युचितरसोपलक्षणार्थम् । वीरशान्ताद्भुतादावपि तेषां १. 'शब्दार्थयोरिति' क-ख. २. 'इति' ग-पुस्तके नास्ति. ३. 'मुख्यतया द्रष्टव्य' ग. १. 'तेजः' क-ख. २. 'दृष्टान्तं' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy