________________
२ उद्द्योतः ]
ध्वन्यालोकः ।
८३
अनित्या दोषाश्च ये श्रुतिदुष्टाद्यः सूचितास्तेऽपि न वाच्यार्थमात्रे, न च व्यजये शृङ्गारे शृङ्गारव्यतिरेकिणि वा ध्वैनेरनात्मभावे । किं तर्हि ध्वन्यात्मन्येव शृङ्गारेऽङ्गितया व्यङ्गचे ते हेया इत्युदाहृताः । अन्यथा हि तेषामै नित्यदोषतैव न स्यात् । एवमैयमसंलक्ष्यक्रमो यो ध्वनेरात्मा प्रदर्शितः सामान्येन ।
'तस्याङ्गानां प्रभेदा ये प्रभेदाः स्वगताश्च ये । तेषामानन्त्यमन्योन्यसंबन्धपरिकल्पने ॥ १३ ॥'
अङ्गितया व्यजयो रसादिर्विवक्षितान्यपरवाच्यस्य ध्वनेरेक आत्मा य उक्तस्तस्याङ्गानां वाच्यवाचकानुपातिनामलंकाराणां ये प्रभेदा निरंवघयो ये च खगतास्तस्याङ्गिनोऽर्थस्य रसभावतदाभासतत्प्रशमलक्षणा विभावानुभावव्यभिचारिप्रतिपादनसहिता अनन्ताः स्वाश्रयापेक्षया निःसीमानो विशेषास्तेषामन्योन्यसंबन्धपरिकल्पने क्रियमाणे कस्यचिदन्यतमस्यापि रसस्य प्रकाराः परिसंख्यातुं न शक्यन्ते किमुत सर्वेषाम् । तथा हि शृङ्गारस्यैवाङ्गिनस्तावदाद्यौ द्वौ भेदौ - संभोगो विप्रलम्भश्च । संभोगस्य च परस्परप्रेमदर्शनसुरतविहरणादिलक्षणाः प्रकाराः । विप्रलम्भस्याप्यभिलाषेर्ष्या विरहप्रवासविप्रलम्भादयः । तेषां च प्रत्येकं विभा
१०
वर्जनात् । सूचिता इति । न त्वेषां विषयविभागप्रदर्शनेनानित्यत्वं भिन्नवृत्तादिदोषेभ्यो विविक्तं प्रदर्शितम् । नापि गुणेभ्यो व्यतिरिक्तं दोषत्वम् । बीभत्सहास्य रौद्रादौ त्वेषामस्माभिरुपगमात् शृङ्गारादौ च वर्जनादनित्यत्वं समर्थितमेवेति भावः । वृत्त्यार्थं प्रकाशयति — अनित्या इति । इत्थमसंलक्ष्यक्रमव्यङ्गयं सामान्येन प्रदशर्योपसंहरन्नाह - एवमित्यादि ।
अङ्गानामित्यलंकाराणाम् । स्वगता इति । आत्मगताः संभोगविप्रलम्भाद्या आत्मीयविभावादिगतास्तेषां निष्ठा प्रकारेणाङ्गाङ्गिभावे का गणनेति भावः । वृत्त्यार्थ प्रकाशयति — अङ्गितयेत्यादिना । परस्परप्रेमदर्शनेति । परस्परं प्रेम्णा दर्श
·
१. ‘तेऽपि वाच्येऽर्थमात्रे' क- ख. २. 'ध्वन्यात्मभूते किं तर्हि' क-ख. ३. 'ये ते' क-ख. ४. ' तथाहि' ग. ५. 'अनित्यत्वदोषमेव' क ख ६. 'अयं' क-ख-पुस्त - कोर्नास्ति. ७. 'क्रमद्योतो' क- ख. ८. 'निरवयवा' ग. ९. 'शृङ्गारस्य तावदायौ " १०. 'द्वौ' क ख पुस्तकयोर्नास्ति ११. 'विरहणादि' ग. १२. ' प्रकारा लक्षणाः' क-ख. १३. ‘प्रत्येकं' ग-पुस्तके नास्ति.