SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । वानुभावव्यभिचारिभेदाः । तेषां च देशकालाद्याश्रयावस्थाभेदा इति स्वगतभेदापेक्षयैव तस्यापरिमेयत्वम्, किं पुनरङ्गप्रभेदकॅल्पनया । ते ह्यङ्गप्रभेदाः प्रत्येकमङ्गिप्रभेद संबन्धपरिकल्पने क्रियमाणे सत्यानन्त्यमेवोपयान्ति । ८४ 'दिमात्रं तूच्यते येन व्युत्पन्नानां सचेतसाम् । बुद्धिरासादितालोका सर्वत्रैव भविष्यति ॥ १४ ॥ दिङ्मात्रकेथनेन हि व्युत्पन्नानां सहृदयानामेकत्रापि रसभेदे कर्तव्ये - ऽलंकारेऽङ्गाङ्गिभावपरिज्ञानादासादितालोका बुद्धिः सर्वत्रैव भविष्यति । नमित्युपलक्षणं संभाषणादेरपि । सुरतं चातुःषष्टिकमालिङ्गनादि । विहरणमुद्यानगमनम् । आदिग्रहणेन जलक्रीडापानकचन्द्रोदयक्रीडादि । अभिलाषविप्रलम्भो द्वयोरप्यन्योन्यं जीवितं सर्वस्वाभिगमात्मिकायां रतात्पन्नायां कुतश्चिद्धेतोरप्राप्तसमागमत्वे मन्तव्यः । यथा सुखयतीति किमुत इत्यतः प्रभृति वत्सराजरत्नावल्योः, न तु पूर्वं रत्नावल्याः । तदा हि कामाभावे रत्यवस्थामात्रं तत् । ईर्ष्याविप्रलम्भः प्रणयखण्डनादिना खण्डितया सह । विरहविप्रलम्भः पुनः खण्डितायाः प्रसाद्यमानाया अपि प्रसादमगृह्णन्त्यास्ततः पश्चात्तापपरीतत्वेन विरहोत्कण्ठितया सह मन्तव्यः । प्रवास विप्रलम्भः प्रोषितभर्तृकया सहेति विभागः । प्रवासविप्रलम्भादीत्यादिशब्दग्रहणाच्छापादिकृतो विप्रलम्भ इव विप्रलम्भः । विडम्बनायां ह्यभिलाषितोऽपि विषयो न लभ्यते । एवमत्रेति । (मन्येऽपि ) । तेषां चेति । एकत्र संभोगादीनामपरत्र विभावादीनाम् । आश्रयो मलयादिमारुतादीनामिति यदुच्यते तद्देशशब्देन गतार्थम् । तस्मादाश्रयः कारणम् । यथा ममैव - 'दयितया प्रथिता स्रगियं मया हृदयधामनि नित्यनियोजिता । गलति शुष्कतयापि सुधारसं विरहृदाहरुजां परिहारकम् ॥' तस्येति शृङ्गारस्य । अङ्गिनां रसादीनां प्रमेदस्तत्संबन्धकल्पनेत्यर्थः । येनेति । दिङ्मात्रोक्तेनेत्यर्थः । सचेतसामिति । महाकवित्वं सहृदयत्वं च प्रेप्सूनामिति भावः । सर्वत्रेति । सर्वेषु रसादिष्वासादित आलोकोऽवगमः सम्यग्व्यु १. 'भेदः' ग. २. 'कालाश्रया' क-ख ३. ' मेद इति स्वगतापेक्षयैतस्य' ग. ४. ‘कल्पनायां’ ग. ५. 'कल्पनेन' ग. ६. 'रसमेदेऽङ्गाङ्गिभाव' ग. १. 'चतुष्षष्टिकां' क ख २. 'सर्वस्वामिगमनात्मिकायां' क ख ३. 'अनुत्पन्नायां' ४. 'भावादिकृतो' ग. ५. 'तदुद्देशेन' क- ख. ६. 'आश्रयकारणात् ' क-ख. ७. 'एकस्येति' ग. ८. ' रसादिना ' ग. ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy