________________
२ उझ्योतः]
ध्वन्यालोकः।
तत्र'शृङ्गारस्याङ्गिनो यत्नादेकरूपानुबन्धनात् । सर्वेष्वेव प्रभेदेषु नानुप्रासः प्रकाशकः ॥१५॥ अङ्गिनो हि शृङ्गारस्य ये उक्ताः प्रभेदास्तेषु सर्वेष्वेकप्रकारानुबन्धितया प्रबन्धेन प्रवृत्तोऽनुप्रासो न व्यञ्जकः । अङ्गिन इत्यनेनाङ्गभूतस्य शृङ्गारस्यैकरूपानुबन्ध्यनुप्रासनिबन्धने कामचारमाह ।
'ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम् । शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः ॥१६॥
नेरात्मभूतः शृङ्गारस्तात्पर्येण वाच्यवाचकाभ्यां प्रकाश्यमानस्तस्मिन्यमकादीनां यमकप्रकाराणां निबन्धनं दुष्करशब्दभङ्गश्लेषादीनां शक्तावपि प्रमादित्वम् । प्रमादित्वमित्यनेनैतीते-काकतालीयेन कदाचित्कस्यचिदेकस्य यमकादेर्निष्पत्तावपि भूम्नालंकारान्तरवद्रसाङ्गत्वेन निबन्धो न कर्तव्य इति । विप्रलम्भे विशेषत इत्यनेन विलम्भे सौकुमार्यातिशयः ख्याप्यते । तस्मिन्धोत्ये यमकादेरङ्गस्य निबन्धो नियमान्न कर्तव्य 'इति । अत्र युक्तिरभिधीयते'रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत् । अपृथग्यत्ननिर्वर्त्यः सोऽलंकारो ध्वनौ मतः ॥ १७ ॥
त्पत्तिर्ययेति संबन्धः । तत्रेति । वक्तव्ये दिङ्माने सतीत्यर्थः । यत्नादिति । यत्नतः क्रियमाणवादिति हेवर्थोऽभिप्रेतः । एकरूपत्वानुबन्धं त्यक्ता विचित्रानुप्रासोऽनुबध्यमानो न दोषाय । एकरूपग्रहणं वृत्त्या विवृणोति-अङ्गिन इंति । वृत्तिकारो वक्ष्यमाणकारिकाभिप्रायं दर्शयन्नाह-(अङ्गिन इति।) यमकादीत्यादिशब्दः प्रकारवाची । दुष्करेति मुरजचक्रबन्धादिः । शब्दभङ्गश्लेषेति । अर्थश्लेषो न दोषाय 'रक्तस्त्वं-' इत्यादौ । शब्दभङ्गोऽपि क्लिष्ट एव दुष्टः, न त्वंशोकसशोकादौ । युक्तिरिति । सर्वव्यापकं वस्वित्यर्थः । रसेति । रैससमवायेन विभावादिघटनामेव कुर्वस्तु नान्तरीयकतया
१. 'सर्वेष्वेव प्रभेदेष्वेक' क-ख. २. 'प्रवृत्तानुप्रासो' ग. ३. 'अङ्गिरूपस्य शृङ्गारस्य' क-ख. ४. 'ध्वनेरात्मभूतः' ग-पुस्तके नास्ति. ५. 'दुष्टम् । शब्द'ग. ६. 'दृश्यते' ग. ७. 'कस्यचित्' ग-पुस्तके नास्ति. ८. 'विप्रलम्भशृङ्गारे' ग. ९. 'ख्याप्यते प्रकाश्यते' ग. १०. 'यमकस्याङ्गभूतस्य' ग. ११. 'इति' क-ख-पुस्तकयो स्ति. १२. 'तत्र' क.
१. 'एकरूपं खनुबन्धं' क-ख. २. 'वशोकादौ' क-ख. ३. 'रससमाधानेन' क-ख. ४. 'कुर्वस्तेनान्तरीयक' क-ख.