SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। निष्पत्तावाश्चर्यभूतोऽपि यस्यालंकारस्य रसाक्षिप्ततयैव बन्धः शक्यक्रियो भवेत्सोऽस्मिन्नलक्ष्यक्रमव्यङ्ग्ये ध्वनावलंकारो मतः । तस्यैव रसाङ्गत्वं मुख्यमित्यर्थः ।। यथा'कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृयोऽधररसः । मुहुः कण्ठे लमस्तरलयति बाष्पस्तनतटं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥ रैसाङ्गत्वे च तस्य लक्षणमक्षुण्णमपृथग्यत्नं निवर्त्यत इति रेसं बन्धुमध्यमसितस्य कवेरलंकारस्तां वासनामत्यूह्य यनान्तरमास्थितस्य निष्पद्यते नै रसाङ्गमिति । यमके च प्रबन्धेन बुद्धिपूर्वकं क्रियमाणे नियमेनैव यत्नान्तरपरिग्रह आपतति शब्दविशेषान्वेषणरूपः । अलंकारान्तरेष्वपि तत्तुल्यमिति चेत् , नैवम् । अलंकारान्तराणि हि निरूप्यमाणदुर्घट यमासादयति स एवात्रालंकारो रंसमार्गे नान्यमतेन वीराद्भुतादि.........ति यमकादिकवेः प्रतिपत्तुश्च रसविघ्नकार्येव । सर्वत्र गड्डरिकाप्रवाहोपहतसहृदयधुराधिरोहणविहीनलोकावर्जनाभिप्रायेण तु मया शृङ्गारे विप्रलम्मे च विशेषत इत्युक्तमिति भावः । तथा च 'रसेऽङ्गत्वं तस्मादेषां न विद्यते' इति सामान्येन वक्ष्यति । निष्पत्ताविति । प्रतिभानुग्रहात्स्वयमेव संपत्तौ निष्पादनानपेक्षायामित्यर्थः । आश्चर्यभूत इति । कैथमेष निबद्ध इत्यद्भुतस्थानम् । उदाहरति-करकिसलयन्यस्तवदना श्वासतान्ता प्रवर्तमानबापभरनिरुद्धकण्ठी अविच्छिन्नरुदितचञ्चत्कुचतटा रोषमपरित्यजन्ती चाटूक्त्या यावत्प्रसाद्यते तावदाविप्रलम्भगतानुभावचर्वणावहितचेतस एव वक्तुः श्लेषरूपकव्यतिरेकाद्या अयत्ननिष्पन्नाश्चर्वयितुरपि न रसचर्वणाविघ्नमादधीति । अक्षुण्णमिति । व्यापकमित्यर्थः । प्रबन्धेन क्रियमाण इति संबन्धः । अत एव बुद्धिपूर्वकत्वमवश्यंभावीति बुद्धिपूर्वकशब्द उपात्तः । रससमवधानात् । अन्यो यत्नो यत्नान्तरम् । निरूप्यमाणानि सन्ति १. 'अपि' ग-पुस्तके नास्ति. २. 'साक्षितया' ख. ३. 'रसाञ्जनत्वे' क-ख. ४. 'अक्षुण्णं' ग-पुस्तके नास्ति. ५. 'रससंबन्धमध्य' ग. ६. 'कवेर्योऽलंकारः' क-ख. ७. 'स न' क-ख. ८. 'बुद्धिपूर्वके' क-ख. १. 'रसमार्गे-प्रतिपत्तुश्च' क-ख-पुस्तकयो स्ति. २. 'एषां निबन्धः' ग. ३. 'अद्भुतरसस्थानम्' क-ख. ४. 'उदाहरति' ग-पुस्तके नास्ति. ५. 'वेदनाश्वासा परिवर्त' क-ख. ६. 'चञ्चल' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy