________________
२ उझ्योतः
ध्वन्यालोकः। नान्यपि रससमाहितचेतसः प्रतिभानवतः कवेरहंपूर्विकया परापतन्ति । यथा कादम्बया कादम्बरीदर्शनावसरे । यथा च मायारोमादिशिरोदर्शनविह्वलायां सीतादेव्यां सेतौ । युक्तं चैतत् । यतो रसा वाच्यविशेषैरेवाक्षेसव्याः । तत्प्रतिपादकैश्च शब्दस्तत्प्रकाशिनो वाच्यविशेषा एव रूपकादयोऽलंकाराः । तस्मान्न तेषां बहिरङ्गत्वं रसाभिव्यक्तौ । यमकदुष्करैमार्गेषु तु तैत्स्थितमेवं । यत्तु रसवन्ति कॉनिविद्यमकादीनि दृश्यन्ते तत्र (सादीनामङ्गता यमकादीनां त्वङ्गितैव । साभासे चाङ्गत्वमप्यविरुद्धम् । अङ्गिता तु व्यङ्ग्ये रसे नाङ्गत्वम् । पृथक्प्रयत्ननिर्वय॑त्वाद्यमकादेः। अस्यैवार्थस्य संग्रहश्लोकाः'रसवन्ति हि वस्तूनि सालंकाराणि कानिचित् । एकेनैव प्रयत्नेन निर्वयन्ते महाकवेः ॥' 'यमकादिनिबन्धे तु पृथग्यत्वोऽस्य जायते। . शक्तस्यापि रसेऽङ्गत्वं तस्मादेषां न विद्यते ॥' 'रसाभासाङ्गभावस्तु यमकादेने वार्यते । ध्वन्यात्मभूते शृङ्गारे त्वङ्गता नोपपद्यते ॥'
दुर्घटनानि । बुद्धिपूर्व चिकीर्षितान्यपि कर्तुमशक्यानीत्यर्थः । तथा निरूप्यमाणत्वे दुर्घटनानि । कथमेतानि रचितानीत्येवं विस्मयावहानीत्यर्थः । अहं पूर्वे अग्रे । अहमादावहमादौ प्रैवर्त इत्यर्थः । अहंपूर्व इत्यस्य भावोऽहंपूर्विका । अहमिति निपातो विभक्तिप्रतिरूपकोऽस्मदर्थवृत्तिः । युक्तं चैतदिति । अहंपूर्विकया परापतनमित्यर्थः । कानिचिदिति । कालिदासादिकृतानीत्यर्थः । शक्तस्यापि पृथग्यत्नो जायत इति संबन्धः । एषामिति । यमकादीनां ध्वन्यात्मभूते शृङ्गारे...... । प्राधान्येनार्धश्लोकेन संगहीते-ध्वन्यात्मभूत इति ।
१. 'रामादि' क-ख-पुस्तकयो स्ति. २. 'इति' क-ख. सेतो सेतुबन्धकाव्य इत्यर्थः. ३. 'तस्मात्तेषां किं न बहि' ग. ४. 'मार्गे' क-ख. ५. 'तत्' ग-पुस्तके नास्ति. ६. 'एव बहिरङ्गलम्' क-ख. ७. 'कानिचिद्वस्तूनि यम' क-ख. ८. 'रसानां' क-ख. ९. 'रसाभावे' क-ख. १०. 'अतिया तु व्यङ्गयेन' क-ख. ११. 'निवर्तन्ते' क-ख. १२. 'यङ्गता' क-ख.
१. 'दुर्घटानि विस्मया-' ग. २. पूर्व इति अग्य इत्यर्थः. ३. 'प्रवृत्त' क-ख. ४. 'युक्तं चैतत्' इत्यारभ्य चारुखहेतुतामित्यर्थः' इतिपर्यन्तं पाठः क-ख-पुस्तकयोस्त्रुटितः: