SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 4 काव्यमाला। इदानीं ध्वन्यात्मभूतस्य व्यञ्जकोऽलंकारवर्ग आख्यायते'ध्वन्यात्मभूते शृङ्गारे समीक्ष्य विनिवेशितः। रूपकादिरलंकारवर्ग एति यथार्थताम् ॥ १८॥ अलंकारो हि बाह्यालंकारसाम्यादङ्गिनश्चारुत्वहेतुरुच्यते । वाच्यालंकारवर्गश्च रूपकादिर्यावानुक्तो वक्ष्यते चे कैश्चित् , अलंकाराणामनन्तत्वासर्वोऽपि यदि समीक्ष्य विनिवेश्यते तदलक्ष्यक्रमव्यङ्ग्यस्य ध्वनेरङ्गिनः सर्व एव चारुत्वहेतुर्निष्पद्यते । ऍषा चास्य विनिवेशने समीक्षा'विवक्षातत्परत्वेन नाङ्गित्वेन कथंचन । काले च ग्रहणत्यागो नातिनिर्वहणैषिता ॥ १९ ॥ 'नियूँढावपि चाङ्गत्वे यत्नेन प्रत्यवेक्षणम् ।। रूपकादेरलंकारवर्गस्याङ्गत्वसाधनम् ॥ २० ॥ इदानीमिति । हेयवर्ग उक्तः । उपादेयवर्गस्तु वक्तव्य इति भावः । व्यञ्जक इति । यश्च यथा चेत्यध्याहारः । यथार्थतामिति । चारुखहेतुतामित्यर्थः । उक्त इति । भामहादिभिरलंकारलक्षणकारैः । वक्ष्यते चेत्यत्र हेतुमाह-अलंकाराणामनन्तत्वादिति । प्रतिभानन्त्यात् । कैश्चिदिति । अन्यैरपि भाविभिरित्यर्थः । समीक्षा इत्यनेन शब्देन कारिकायामुक्तेति भावः । श्लोकपादेषु चतुर्पु श्लोकार्धे चाङ्गखसाधनमिदम् । रूपकादेरिति प्रत्येकं संबन्धः । यमलंकारं तदङ्गतया विवक्षति नाङ्गिखेन यमवसरे गृह्णाति यमवसरे त्यजति यं नात्यन्तं निर्वोढुमिच्छति यं यत्नादङ्गत्वेन प्रत्यवेक्षते स एवमुपनिबध्यमानो रसाभिव्यक्तिहेतुर्भवतीति वितंतं महावाक्यम् । तन्महावाक्यमध्ये चोदाहरणावकाशमुदाहरणस्वरूपं तद्योजनं तत्समर्थनं च निरूपयितुं ग्रन्थान्तर १. 'बाह्यालंकारस्याङ्गिनश्च' क-ख. २. 'वा' ग. ३. 'अपि' क-ख-पुस्तकयोर्नास्ति. ४. 'या चास्य' क, 'यस्य चास्य' ख. ५. 'समीक्षा सा चास्य प्रकाश्यते' क-ख. ६. 'कदाचन' ग.. १. 'लक्षण' ग-पुस्तके नास्ति. २. 'अनन्तलादलंकाराणामिति' क-ख. ३. 'यमकालंकारं प्रसङ्गतया' ग. ४. 'विततविततं' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy