________________
२ उयोतः]
ध्वन्यालोका। रेसबन्धेष्वत्याहतमनाः कविर्वमलंकारं तदङ्गतमा विवक्षति । यथ'चलापाना दृष्टिं स्पृशसि बहुशो वेपथुमती
रहस्याख्यायीव खनसि मृदु कर्णान्तिकर्गतः। करं व्याधुन्वन्त्याः पिबसि रतिसर्वखमधरं ___ वयं तत्त्वान्वेषान्मधुकर हत्तास्त्वं खलु कृती ॥' अत्र हि भ्रमरस्वभावोकिरलंकारो रसानुगुणः । नाङ्गित्वेनेति प्राधान्येन कदाचिद्रसादितात्पर्येण विवक्षितोऽपि ह्यलंकारः कश्चिदेङ्गित्वेन विबक्षितो दृश्यते । यथा
'चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य । आलिङ्गनोदामविलासर्वन्ध्यं रतोत्सवं चुम्बनमात्रशेषम् ।।'
मिति वृत्तिग्रन्थस्य संबन्धः । उदाहरति-यथेति । चलेति । हे मधुकर, वयमेवंविधाभिलाषचाटुप्रवणा अपि तत्त्वान्वेषणाद्वस्तुवृत्तेऽन्विष्यमाणे हता आयासमात्रपात्रीभूता जाताः । त्वं खल्विति निपातेनायनसिद्धं तवैव चरितार्थत्वमिति शकुन्तलां प्रत्यभिलाषिणो दुष्यन्तस्येयमुक्तिः । तथाहि कथमेतदीयकटाक्षगोचरा भूयास्म, कथमेषामदभिप्रायव्यअकं रहोवचनमाकर्म्यात् , कथं तु हठादनिच्छन्त्या अपि परिचुम्बनं विधेयास्मेति यदस्माकं मनोराज्यपदवीमधिशेते तत्तवायनसिद्धम् । भ्रमरो हि नीलोत्पलधिया तदाशङ्काकातरां दृष्टिं पुनःपुनः स्पृशति । श्रवणावकाशपर्यन्तखाच नेत्रयोरुत्पलशङ्कानपगमात्तत्रैव ध्वन्यमान आस्ते । सहजसौकुमार्यत्रासकातरायाश्च रतिनिधानभूतं विकसितारविन्दकुवलयामोदमधुरमेधरं पिबतीति । भ्रमरखभावोक्तिरिति । खभावोक्तिरलंकारोऽसतामेव प्रकृतरसस्योपगतः । अन्ये तु भ्रमरखभावे उक्तिर्यस्येति भ्रमरखभावोचिरन रूपकव्यतिरेक इत्याहुः । चक्राभिघात एव प्रसभाज्ञा अलङ्घनीयो नियोगस्तया यो राहुदयितानां रतोत्सवं चुम्बनमात्रशेषं चकार । यत आलिङ्गनमुद्दाम प्रधानं येषु विलासेषु तैर्वन्ध्यः शून्योऽसौ रतोत्सवः । अत्राह कश्चित्-'पर्यायोलमेवान कवेः प्राधान्येन विवक्षितं न तु रसादि । तत्कथमुच्यते रसादितात्पर्ये सत्यपीति । मैवं, वासु
१. 'रसबन्धे ध्वन्यध्वन्यादत' ग. २. 'चरः' ग. ३. 'इति' क-ख-पुस्तकयोर्नास्ति. ४. 'केनचित्' क-ख. ५. 'अङ्गित्वेन दृष्टः' क-ख. ६..'शून्य' क-ख.
१. 'इति वस्तु' ग. २. 'तथाहि ग-पुस्तके नास्ति. ३. 'न' ग. ४. 'दृशं' ग. ५. 'मधुरं' ग-पुस्तके नास्ति. ६. 'वन्ध्यं शून्यं' क-ख. ७. 'तत्कथमुच्यते रसादि' क-ख-पुस्तकयोनास्ति.
९ ध्व. लो.