________________
: काव्यमाला। .. अत्र हि,पर्यायोक्तस्याङ्गित्वेन विवक्षा रसादितात्पर्ये सत्यपीति । अङ्गित्वेनाविवक्षितमपि यमवसरे गृह्णाति नानवसरे। अवसरे गृहीतिर्यथा'उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा
दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः । अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं
___ पश्यन्कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥' • इत्यत्र श्लेषस्य ।
गृहीतमपि च यमवसरे त्यजति तद्रसानुगुणतयालंकारान्तरापेक्षया । यथा'रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै
स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि ।
देवप्रतापो ह्यत्र विवक्षितः । स चात्र चारुखहेतुतया न चकास्ति, अपि तु पर्यायोक्तमेव । यद्यपि चात्र काव्ये न कदाचिद्दोषाशङ्का तथापि दृष्टं तावदेतत्-यत्प्रकृतस्य पोषणीयस्य स्वरूपतिरस्कारकोऽप्यङ्गभूतोऽलंकारः संपद्यते । ततश्च कश्चिदनौचित्यमागच्छतीत्ययं ग्रन्थकृत आशयः । तथा च ग्रन्थकार एवमग्रे दर्शयिष्यति । महात्मनां दूषणोद्घोषणमात्मन एव दूषणमिति नेदं दूषणोदाहरणं दत्तम् । उद्दामा उद्गताः कलिका यस्याः । उत्कलिकाश्च रुहरुहिकाः । क्षणात्तस्मिन्नेवावसरे प्रारब्धा जृम्भा विकासो यया । जृम्भा च मन्मथकृतोऽङ्गमर्दः। श्वसनोद्गमैर्वसन्तमारुतोल्लासैरात्मनो लता. लक्षणस्यायासमायासनमान्दोलनयत्नमातन्वतीम् । निःश्वासपरम्परामिश्चात्मन आयासं हृदयस्थितमातापमातन्वतीं प्रकटीकुर्वाणाम् । सह मदनाख्येन वृक्षविशेषेण मदनेन कामेन च । अत्रोपमाश्लेष ईर्ष्याविप्रलम्भस्य भाविनो मार्गपरिशोधकत्वेन स्थितस्तच वर्णाभिमुख्यं कुर्वन्नवसरे रसस्य प्रमुखीभावदशायां पुरःसरायमाणो गृहीत इति भावः । अमिनयोऽप्यत्र प्राकरणिके प्रतिपदम् । अप्राकरणिके तु वाक्यार्थाभिनयेनापाङ्गादिना। न तु सर्वथा नाभिनय इत्यलमवान्तरेण । ध्रुवशब्दश्च भावीावकाशप्रैदानजीवितम् । रको लोहितः। अहमपि रक्तः प्रवृद्धानुरागः। तत्र च प्रबोधको विभावस्वदीयपल्लवराग इति मन्तव्यम् । एवं प्रतिपादमाद्योऽर्थोऽङ्गिभावत्वेन व्याख्येयः । अत एव हेतु-. ... १. 'अङ्गित्वेना' ग-पुस्तके नास्ति. २. 'इयमवसरे' क-ख. ३. 'तथा' ग. - १. 'क्वचित्' क-ख. २. 'दोषोद्भावन' क-ख. ३. 'दोषोदा' क-ख. ४. 'संताप ग. ५. 'प्रधान' क-ख.