________________
२ उड्योतः]
ध्वन्यालोकः । : कान्तापादतंलाहतिस्तव मुदे तद्वन्ममाप्यावयोः .. .
___सर्व तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥'. __ अत्र हि प्रबन्धप्रवृत्तोऽपि श्लेषो व्यतिरेकविवक्षया त्यज्यमानो रसविशेष पुष्णाति । नात्रालंकारद्वयसंनिपातः । किं तर्हि, अलंकारान्तरमेव श्लेषव्यतिरेकलक्षणं नरसिंहवदिति चेत्, नं । तस्य प्रकारान्तरेण व्यवस्थापनात् । यत्र हिं श्लेषविषय एव शब्दे प्रकारान्तरेण व्यतिरेकप्रतीति यते स तस्य विषयः । यथा-'स हरिर्नाम्ना देवः सहरिर्वरतुरगनिवहेन' इत्यादौ । अत्र ह्यन्य एव शब्दश्लेषस्य विषयोऽन्यश्च व्यतिरेकस्य । यदि चैवंविधे विषयेऽलंकारान्तरत्वकल्पना क्रियते तत्संसृष्टेविषयापहार एव
श्लेषोऽयम् । सहोत्युपमाहेत्वलंकाराणां हि भूयसा श्लेषानुग्राहकत्वम् । अनेनैवाभिप्रायेण भामहः-अन्यरूपं यत्तत्सहोक्त्युपमाहेतुनिर्देशान्त्रिविधम्' इत्युक्त्वा 'न त्वन्यालंकारानुग्रहनिराचिकीर्षया....... । रसविशेषमिति विप्रलम्भम् । सशोकशब्देन व्यतिरेकमानयतां शोकसहभूतानां निर्वेदचिन्तादीनां व्यभिचारिणां विप्रलम्भपरिपोषकाणामवकाशो दत्तः । किं तहीति । संकरालंकार एवायम् । तत्र किं त्यक्तं किं वा गृहीतमिति परस्याभिप्रायः । तस्येति संकरस्य । एकत्र हि विषयेऽलंकारद्वये प्रतिभोल्लासः संकरः । सहरिशब्द एको विषयः । संह हरिः सहरिः । यदि वा सह हरिमिः सहरिरिति । अत्र हीति । श्लेषोऽन्यो व्यतिरेकस्य । हिशब्दस्तुशब्दस्यार्थे । रक्तस्त्वमित्यत्रेत्यर्थः । अन्य इति रक्तेत्यादयः । अन्यश्चेत्यशोकसशोकादयः । नन्वेकं वाक्यात्मकं विषयमाश्रित्यैकविषयत्वादस्तु संकर इत्याशङ्कयाह-यदीति । एवंविधे वाक्यलक्षणे विषये विषय इत्येकत्वं विवक्षितं बोध्यम् । एकवाक्यापेक्षया यद्येकविषयत्वमुच्यते तत्र क्वचित्संसृष्टिः स्यात् । संकरेण व्याप्तत्वात् । नतूपमागर्भो व्यतिरेकः । उपमा च श्लेषमुखेनैवायातेति श्लेषोऽत्र व्यतिरेकस्यानुप्राहक इति संकरस्यैवैकविषयः । यत्र त्वनुग्राह्यानुग्राहकभवो नास्ति तत्रैकवाक्यगामित्वेऽपि संसृष्टिरेव । तदेतदाह... १. 'क्रियते' क-ख. २. 'शब्दः' क. ३. 'क्रियेत ततः संसृष्टेविषयापरभार 'एव' ग.. ... १. 'वकव्यं' क-ख. २. 'अलंकारान्तरद्वये' ग. ३. 'सह हरिः सहरिः' कखपुस्तकयो स्ति. ४. 'हीति श्लेषोऽन्यो व्यतिरेकस्य ग-पुस्तके नास्ति. ५. 'अन्यश्चेत्यशोकसशोकादयः' क-ख-पुस्तकयो स्ति. ६. 'बोद्धव्यम्' क-ख. ७. 'इष्टविषयः' ग.