________________
२१८
काव्यमाला । च यद्वाच्यं तस्य कदाचिद्विवक्षितत्वं कदाचिदविवक्षितत्वं कदाचिद्विवक्षिताविवक्षितत्वमिति त्रयी बन्धच्छाया । तत्र विवक्षितत्वं यथा
परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो - यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः । . न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः
किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥' यथा वा ममैव
. 'अमी ये दृश्यन्ते ननु सुभगरूपाः सफलता __भवत्येषां यस्य क्षणमुपगतानां विषयताम् । निरालोके लोके कथमिदमहो चक्षुरधुना
___ समं जातं सर्वैर्न सममथवान्यैरवयवैः ॥' अनयोर्हि द्वयोः श्लोकयोरिक्षुचक्षुषी विवक्षितखरूपे एव न तु प्रस्तुते । महागुणस्याविषयपतितत्वादप्राप्तपरभागस्य कस्यचित्खरूपमुपवर्णयितुं द्वयोरपि श्लोकयोस्तात्पर्येण प्रस्तुतत्वात् । अविवक्षितत्वं यथा
इत्यर्थः । इति चार्थे । अप्रस्तुतप्रशंसोपमालक्षणमलंकारद्वयम् । अनन्तरं तु वात्मनि विस्मयधामतया ते विश्रान्तिः । परस्य च श्रोतृजनस्यात्यादरास्पदतया प्रयत्नग्राह्यतया चोत्साहजननेनैवंभूतमत्यन्तोपादेयं सत्कतिपयसमुचितजनानुग्राहकं कृतमिति स्वात्मनि कुशलकारिताप्रदर्शनया धर्मवीरस्पर्शनेन वीररसे विश्रान्तिरिति मन्तव्यम् । अन्यथा परिदेवितमात्रेण किं कृतं स्यात् । उत्प्रेक्षापूर्वकारित्वमात्मन्यावेदितं चेकि ततः स्वार्थपरार्थसंभवादिसलं बहुना। ननु यथास्थितस्यार्थस्य संगतौ भवत्व प्रस्तुतप्रशंसा इह तु संगतिरस्त्येवेत्याशक्षा संगतावपि भवत्येवैषेति दर्शयितुमुपक्रमते-अप्रस्तुतेति । नन्विति । यैरिदं जगद्भूषितमित्यर्थः । यस्य चक्षुषोर्विषयतां क्षणं गतानामेषां सफलता भवति तदिदं चक्षुरिति संबन्धः । आलोको विवेकोऽपि । न सममिति । हस्तो हि वरं स्पर्शादानादावप्युपयोगी । अवयवैरिति । अतितुच्छप्रायैरित्यर्थः । अप्राप्तः पर उत्कृष्टो भौगोऽर्थलाभात्मकः खरूपप्रथनलक्षणो वा येन । तस्य कथयामीत्यादिप्रैत्युक्तिः । अनेन पदेनेद माह-अंकथनीयमेतत् । श्रूयमाणं हि निर्वेदाय भवति। तथापि तु यदि निर्बन्धस्तत्कथयामि
१. 'मधुर इत्यादि' ग-पुस्तके एतावदेवास्ति न तु संपूर्ण पद्यम्. २. 'देशे' क-ख.
१. 'अर्थः' क-ख-पुस्तकयो स्ति. २. 'भोगो' ग. ३. 'प्रत्युक्तः' ग. ४. 'कथनीय' ग.