________________
ध्वन्यालोकः ।
'कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते । वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
न च्छायापि परोपकारकरिणी मार्गस्थितस्यापि मे ॥ नहि वृक्षविशेषेण सहोक्तिप्रत्युक्ती संभवत इत्यविवक्षिताभिधेयेनैवानेन श्लोकेन समृद्धासत्पुरुषसमीपवर्तिनो निर्धनस्य कस्यचिन्मनखिनः परिदेवितं तात्पर्येण वाक्यार्थीकृतमिति प्रतीयते ।
३ उद्योतः ]
२१९
विवक्षितत्वाविवक्षितत्वं यथा
_
'उप्पहजाआऍ असोहिणीऍ फलकुसुमपत्तरहिआए ।
वे व देतो पामर हो ओहसिज्जिहसि ॥'
अत्र हि वाच्यार्थो नात्यन्तं संभवी । तस्माद्वाच्यव्यङ्ग्ययोः प्राधान्याप्राधान्ये यत्नतो निरूपणीये ।
वैराग्यादिति । काक्वा दैवहतकमित्यादिना सूचितं ते' वैराग्यमिति यावत् । साधुवि`दितमित्युत्तरम् । कस्मादिति वैराग्ये हेतुप्रश्नः । इदं कथ्यत इत्यादि सनिर्वेदस्मरणोपक्रमं कथंकथमपि निरूपणीयतेयोत्तरम् । वामेनेति । अनुचितेन कुलादिनोपलक्षित इत्यर्थः । वट इति । च्छायामात्रकरणादेव फलदानादिशून्यादुडुरकंधर इत्यर्थः । छायापीति । शाखोटको हि स्मशानाग्निज्वालाली ढलतापल्लवादिस्तरुविशेषः । अत्राविवक्षायां हेतुमाह -नहीति । समृद्धो योऽसत्पुरुषः । 'समृद्धसत्पुरुष' इति पाठे समृद्धेन ऋद्धिमात्रेण सत्पुरुषो न तु गुणादिनेति व्याख्येयम् । नात्यन्तमिति । वाच्य एव नियमो नास्तीति न शक्यं वक्तुम् । व्यङ्ग्यस्यापि भावादिति तात्पर्यम् । उत्पथजाताया इति न तथाकुलोद्भू-तायाः । अशोभनाया इति लावण्यरहितायाः । फलकुसुमपत्ररहिताया इत्येवंभूतापि काचित्पुत्रिणी वा भ्रात्रादिपक्षपरिपूर्णतया संबन्धिवर्गपोषका वा परिरक्ष्यते । बदर्यां वृतिं ददत्पामर भोः, हसिष्यसे सर्वलोकैरिति भावः । एवमप्रस्तुतप्रशंसां प्रसङ्गतो निरूप्य प्रकृतमेव यन्निरूपणीयं तदुपसंहरवि - तस्मादिति । अप्रस्तुतप्रशंसायामपि लावण्येत्यत्र श्लोके यस्माद्यामोहो लोकस्य दृष्टस्ततो हेतोरित्यर्थः । एवं व्यद्न्यखरूपं निरूप्य सर्वथा
१. 'श्रूयताम्' ग. २. 'करणे' क-ख. ३. 'वासिनो' क ख ४ . ' उत्पथजाताया अशोभनायाः फलकुसुमपत्ररहितायाः । बदर्या वृतिं ददत्पामर भो अवहसिष्यसे ॥' इति च्छाया.
१. 'वेन' ग. २. 'तयोक्तम्' ग. ३. 'प्रशंसाप्रकारं ' क-ख. ४. 'व्यङ्ग्यं स्वरूपतो निरूप्य सर्वथा तच्छून्यं यत्तन्निरूपितुमाह' क ख .