SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २२० काव्यमाला। प्रधानगुणभावाभ्यां व्यङ्गयस्यैवं व्यवस्थिते । काठ्ये उभे ततोऽन्यद्यत्तचित्रमभिधीयते ॥ ४२ ॥ चित्रं शब्दार्थभेदेन द्विविधं च व्यवस्थितम् । तत्र किंचिच्छब्दचित्रं वाच्यचित्रमतः परम् ॥ ४३ ॥ - व्यङ्गयस्यार्थस्य प्राधान्ये ध्वनिसंजितकाव्यप्रकारः गुणभावे तु गुणीभूतव्यङ्ग्यता । ततोऽन्यद्रसभावादितात्पर्यरहितं व्यङ्गयार्थविशेषप्रकाशनशक्तिशून्यं च काव्यं केवलवाच्यवाचकवैचित्र्यमात्राश्रयेणोपनिबद्धमालेख्यप्रख्यं यदाभासते तच्चित्रम् । न तन्मुख्यं काव्यम् । काव्यानुकारो ह्यसौ । तत्र किंचिच्छब्दचित्रं यथा दुष्करयमकादि । वाच्यचित्रं ततः शब्दचित्रादन्यव्यङ्यार्थसंस्पर्शरहितं प्राधान्येन वाक्यार्थतया स्थितं रसादितात्पर्यरहितमुत्प्रेक्षादि । अथ किमिदं चित्रं नाम यत्र न प्रतीयमानार्थसंस्पर्शः । प्रतीयमानो ह्यर्थस्त्रिभेदः प्राक्प्रदर्शितः । तत्र यत्र वस्त्वलंकारान्तरं वा व्यङ्ग्यं नास्ति स नाम चित्रस्य कल्प्यतां विषयः । यत्र तु रसादीनामविषयत्वं स काव्यप्रकारो न संभवत्येव । यस्मादवस्तुसंस्पर्शिता काव्यस्य नोपद्यते । वस्तु च सर्वमेव जगद्गतमवश्यं कस्यचिद्रसस्य चाङ्गत्वं प्रतिपद्यते । विभावत्वेन चित्तवृत्तिविशेषा हि रसादयः न च तदस्ति वस्तु किंचिद्यन्न चित्तवृत्तिविशेषमुपजनयति तदनुत्पादने वा कविविषयतैव तस्य न स्यात् । कविविषयश्च चित्रतया कश्चिन्निरूप्यते । अत्रोच्यते-सत्यम् न ताहकाव्य यत्तच्छ्न्यं तत्र का वार्तेति निरूपयितुमाह-प्रधानेत्यादिना । कारिकाद्वयेन । शब्दचित्रमिति । यमकचक्रबन्धादिचित्रतया प्रसिद्धमेव । तत्तुल्यमेवार्थचित्रं मन्तव्यमिति भावः । आलेख्यप्रख्यमिति । रसादिजीवरहितं मुख्यप्रतिकृतिरूपं चेत्यर्थः । अथ किमिदमिति । आक्षेपे वक्ष्यमाण आशयः । अत्रोत्तरम्-यत्रेति । आक्षिप्तस्याभिप्रायं दर्शयति-प्रतीयमान इति । अवस्तुसंस्पर्शितेति । कचटतपादिवनिरर्थकलं दशदाडिमादिवदसंबद्धार्थवं वेत्यर्थः । ननु मा भूत्कविविषय इत्याशझ्याहकविविषयश्चेति । काव्यरूपतया यद्यपि न निर्दिष्टेस्तथापि कविगोचरीकृत एवासौ - १. 'तु' ग. २. 'आलेख्यमिव' ग. ३. 'तावत्काव्यस्य' ग. ४. 'नापाद्यते' क-ख. ५. 'वाङ्गलं' ग. ६. 'अतो विभावलेन' क-ख. ७. 'तदुपादाने च' ग. ८. 'काव्यवाप्रकारः' क-ख. १. 'चेत्यर्थः' क-ख. २. 'व्यपदिष्टः' क-ख..
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy