________________
३ उद्योतः ]
ध्वन्यालोकः ।
२१७
इत्यत्र व्याजस्तुतिरलंकार इति व्याख्यायि केनचित्तन्न चतुरस्रम् । यतोऽस्याभिधेयस्यैतदलंकारखरूपमात्र पर्यवसायित्वेन सुश्लिष्टता । यतो न तावदयं रागिणः कस्यचिद्विकल्पः । तस्य 'एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता' इत्येवंविधोक्त्यनुपपत्तेः । नापि नीरागस्य । तस्यैवंविधवि - 1 कल्पपरिहारैकव्यापारत्वात् । न चायं श्लोकः कचित्प्रबन्ध इति श्रूयते येन तत्प्रकरणानुगतार्थतास्य परिकल्प्यते । तस्मादप्रस्तुतप्रशंसेयम् । यस्मा - दनेन वाच्येन गुणीभूतात्मना निःसामान्यगुणावलेपाध्मातस्य निजमहिमोत्कर्षजनित संमत्सर जनज्वरस्य विशेषज्ञमात्मनो न कंचिदेवापरं पश्यतः परिदेवितमेतदिति प्रकाश्यते । तथा चायं धर्मकीर्ते श्लोक इति प्रसिद्धिः । संभाव्यते च तस्यैव । यस्मात्
'अनध्यवसितावगाहनमनल्पधीशक्तिना
प्यदृष्टपरमार्थतत्त्वमधिकाभियोगैरपि ।
मतं मम जगत्यलब्धसदृशप्रतिग्राहकं
प्रयास्यति पयोनिधेः पय इव खदेहे जराम् ॥' इत्यनेनापि श्लोकेनैवंविधोऽभिप्रायः प्रकाशित एव । अप्रस्तुतप्रशंसायां
तया मध्यस्थत्वेनापि तां वस्तुतस्तथा पश्यतो नेयमुक्तिः संभाव्या । नहि वीतरागो विपर्यस्तान्भावान्पश्यति । नह्यस्य वीणाक्कणितं काकरटितकल्पं प्रतिभाति । तस्मात्प्रस्तुतानुसारेणोभयस्यापीयमुक्तिरुपपद्यते । अप्रस्तुतप्रशंसायामपि ह्यप्रस्तुतः संभवन्नेवार्थो वक्तव्यः । नहि तेजसीत्थमप्रस्तुतप्रशंसा संभवति - अहो धिक् कार्ण्यमिति । सा परं प्रस्तुतपरतयेति नात्रासंभव इत्याशङ्कयाह-न चेति । निःसामान्येति निजमहिमेति विशेषज्ञ I परिदेवितमित्येतैश्चतुर्भिर्वाक्यखण्डैः क्रमेण पादचतुष्टयस्य तात्पर्यं व्याख्यातम् । नन्वत्रापि किं प्रमाणमित्याशङ्क्याह - तथा चेति । ननु किमियतेत्याशङ्क्य तदाशयेन निर्वादतदीयश्लोकार्पितेनास्याशयं संवादयति - संभाव्यत इति । अवगाहनमध्यवसितमपि न यत्र आस्तां तस्य संपादनम् । परमं यदर्थतत्त्वं कौस्तुभादि वा उत्तमं लब्धं यत्र । परीक्षितमपि न प्राप्तं सदृशं तथाभूतपरिग्राहमेकैको ग्राहो जलचरः प्राणी ऐरावतोच्चैःवोधन्वन्तरिप्रायो यत्र तदलब्धसदृशप्रतिग्राहकम् । एवंविध इति । परिदेवित विषय
१. ' इत्ययं श्लोको व्याजस्तुत्यलंकार - तन्न चैतत् चतुरस्रम्' ग. २. समस्तसमत्स -
रज्वरस्य' क - ख.
१. 'विवेकान्ध्य मिति' ग. २. ' तस्यासंभावनम्' ग.