________________
२१६
काव्यमाला। राजानमपि सेवन्ते विषमप्युपभुञ्जते ।
रमन्ते च सह स्त्रीभिः कुशलाः खलु मानवाः ॥' इत्यादौ वाच्यव्यङ्गययोश्च प्राधान्याप्राधान्यविवेके परः प्रयत्नो विधातव्यः येन ध्वनिगुणीभूतव्यङ्ग्ययोरलंकाराणां चासंकीर्णो विषयः सुज्ञातो भवति । अन्यथा तु प्रसिद्धालंकारविषय एव व्यामोहः प्रवर्तते । तथा हि । 'लावण्यद्रविणव्ययो न गणितः क्लेशो महानर्जितः
खच्छन्दं चरतो जनस्य हृदये चिन्ताज्वरो निर्मितः । एषापि खयमेव तुल्यरमणाभावाद्वराकी हता
कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्त, तन्वता ॥'
दात्मकशान्तरसप्रतीतिरस्ति तथापि चमत्कारोऽयं वाच्यनिष्ठ एव । व्यङ्ग्यत्वसंभाव्यवविपरीतकारितादि तस्यैवानुयायिनश्चापिशब्दाभ्यामुभयतो योजिताभ्यां चशब्देन च स्थानत्रययोजितेन खलुशब्देन चोभयतो योजितेन मानवशब्देन स्पष्टमेव गुणीभूतम् । विवेकदर्शना चेयं न निरुपयोगेति दर्शयति-वाच्यव्यङ्ग्ययोश्चेति । अलंकाराणां
चेति । यत्र व्यङ्ग्यं नास्त्येव तत्र तेषां शुद्धानां प्राधान्यम् । अन्यथा त्विति । यदि प्रयत्नवता न भूयत इत्यर्थः । व्यङ्ग्यप्रकारस्तु यो मया पूर्वमुत्प्रेक्षितस्तस्यासंदिग्धमेव व्यामोहस्थानमित्येवकाराभिप्रायः । द्रविणशब्देन सर्वखप्रायलमनेकवकृत्योपयोगित्वमुक्तम् । गणित इति । चिरेण हि योग्यो यः संपद्यते न तु विद्युदिव झटिति तत्रावश्यं गणनया भवितव्यम् । अनन्तकालनिर्माणकारिणोऽपि तु विधिर्न विवेकलेशोऽप्युदभूदिति परमस्य प्रेक्षावत्त्वम् । अत एवाह-क्लेशो महानिति । स्वच्छन्दस्येति । विशृङ्खलस्येत्यर्थः । एषापीति । यत्स्वयं निर्मीयते तदेव च निहन्यत इति महद्वैशसमपिशब्देन वकारेण चोक्तम् । कोऽर्थ इति । न खात्मनो न लोकस्य निर्मितस्येत्यर्थः । तस्येति रागिणः । वराकी हतेतिकृपालिङ्गितममङ्गलोपहतं चानुचितं वचनम् । तुल्यरमणाभावादिति खात्मन्यत्यन्तमनुचितम् । आत्मन्यपि हि तद्रूपासंभावनायां रागितायां च पशुप्रायत्वं स्यात् । ननु च रागिणोऽपि कुतश्चित्कारणात्परिगृहीतकतिपयकालव्रतस्य वा रावणप्रायस्य वा सीतादिविषये दुष्यन्तप्रायस्य वा निर्जातजातिविशेषे शकुन्तलादौ किमियं खसौभाग्याभिमानगर्भा उत स्तुतिगर्भोक्तिर्न भवति । वीतरागस्य वा अनादिकालाभ्यस्तरागवासनावासित- १. 'हन्त' ग. २. 'महान्वीकृतः' क-ख. ३. 'खच्छन्दस्य सखीजनस्य वसतश्चिन्तानलो दीपितः' क-ख. ४. 'स्वगुणानुरूपरमणाभावात्' ग.
१. 'संभावित्व' क-ख. २. 'उत्प्रेक्षावत्त्वम्' क ख. ३. 'गर्भा चोक्तिर्न' क-ख..