SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ २ उद्दयोतः] ध्वन्यालोक। सामर्थ्याक्षिप्तं सदलंकारान्तरं शब्दशक्त्या प्रकाशते स सर्व एव ध्वनेर्विषयः । यथा---. ... .. - "अत्रान्तरे कुसुमसमययुगमुपसंहरन्नजृम्भत ग्रीष्माभिधानः फुल्लमल्लिकाधवलाट्टहासो महाकालः ।' यथा च 'उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः । पयोधरभरस्तन्व्याः कं न चक्रेऽभिलाषिणम् ॥' . . यथा वा ......'दैवानन्दाः प्रजानां समुचितसमयाक्लिष्टसृष्टैः पयोभिः । पूर्वाह्ने विप्रकीर्णा दिशि दिशि विरमत्यहि संहारभाजः । फुल्लमल्लिका एव धवलाट्टहासोऽस्येति तु व्याख्याने 'जलदभुजगज' इत्येतत्तुल्यमेतत्स्यात् । महांश्चासौ दिनदैर्घ्यदुरतिवाहतया योगात्कालः समयः । अत्र ऋतुवर्णनप्रस्तावनियत्रिता अभिधाशक्तयः। अत एव 'अवयवप्रसिद्धः समुदायप्रसिद्धिर्बलीयसी' इति न्यायमपाकुर्वन्तो महाकालप्रभृतयः शब्दा एकमेवार्थमभिधाय कृतकृत्या एव । तदनन्तरमर्थावगति_ननव्यापारादेव शब्दशक्तिमूलात् । तत्र केचिन्मन्यन्ते-'यत एतेषां शब्दानां पूर्वमर्थान्तरेऽभिधान्तरं दृष्टं ततस्तथाविधेऽर्थान्तरे दृष्टतदभिधाशक्तरेव प्रतिपत्तुर्नियन्त्रिताभिधाशक्तिकेभ्य एतेभ्यः प्रतिपत्तिर्ध्वननव्यापारादेवेति शब्दशक्तिमूलत्वं व्यङ्ग्यात्मत्वं चेत्यविरुद्धम्' । अन्ये तु–'साभिधैव द्वितीयार्थसामग्यं ग्रीष्मस्य भीषणदेवताविशेषसादृश्यात्मकं सहकारित्वेन यतोऽवलम्बते ततो ध्वननव्यापाररूपोच्यते' इति । एके तु–'शब्दश्लेषे तावद्भेदे सति शब्दार्थश्लेषेऽपि शक्तिभेदाच्छब्दभेद इति दर्शने द्वितीयः शब्दस्तत्रानीयते । स च कदाचिदभिधाव्यापारात् यथोभयोत्तरदामार्य 'श्वेतो धावति' इति प्रश्नोत्तरादौ वा । तत्र शब्दान्तरबलादपि तदर्थान्तरं प्रतिपन्नं प्रतीयमानमूलत्वात्प्रतीयमानमेव युक्तम्' इति । इतरे तु–'द्वितीयपक्षव्याख्यातं यदर्थसामर्थ्य तेन द्वितीयाभिधैव प्रतिप्रसूयते ततश्च द्वितीयोऽर्थोऽभिधीयत एव न ध्वन्यते तदनन्तरं तु तस्य द्वितीयार्थश्च प्रतिपन्नस्य प्रथमार्थेन प्राकरणिकेन साकं या रूपणा १. हर्षचरिते द्वितीय उच्छ्वासे गद्यमेतत्. २. 'तस्याः' ग. ३. सूर्यशतकस्थं पद्यम्, १. 'समाकुर्वते' क-ख. २. 'व्यङ्ग्यत्वं' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy