SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ३३ १ उझ्योतः] ध्वन्यालोकः । ___ एवं वाच्यव्यतिरेकिणो व्यङ्ग्यस्यार्थस्य सद्भाव प्रतिपाद्य प्रकृत उपयोजयन्नाह'यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ । व्यतः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥ १३ ॥ यत्रार्थो वाच्यविशेषः वाचकविशेषः शब्दो वा तमर्थ व्यङ्गः, स काव्यविशेषो ध्वनिरिति । अनेन वाच्यवाचकचारुत्वहेतुभ्य उपमादिभ्योऽनुप्रासादिभ्यश्च विभक्त एव ध्वनेविषय इति दर्शितम् । यदप्यु सद्भावमिति । सत्तां साधुभावं प्राधान्यं चेत्यर्थः । द्वयं हि प्रतिपिपादयिषितम् । प्रेकृत इति लक्षणे । उपयोजयन्नित्युपयोगं गमयन् । तमर्थमिति चायमुपयोगः । खशब्द आत्मवाची । खं चासावर्थश्च तो खार्थी । तो गुणीभूतौ याभ्याम् । यथासंख्येन तेनार्थो गुणीकृतात्मा, शब्दो गुणीकृताभिधेयः । तमर्थमिति । 'सरस्वती स्वादु तदर्थवस्तु' इति यदुक्तम् । व्यतः द्योतयतः । व्यत इति द्विवचनेनेदमाह-यद्यप्यविवक्षितवाच्ये शब्द एव व्यञ्जकस्तथाप्यर्थस्यापि सहकारिता न त्रुट्यति । अन्यथा ज्ञातोऽपि शब्दस्तयञ्जकः स्यात् । विवक्षितान्यपरवाच्ये च शब्दस्यापि सहकारिखं भवत्येव । विशिष्टशब्दाभिधेयतया विना तस्यार्थस्याव्यञ्जकत्वादिति सर्वत्र शब्दार्थयोरुभयोरपि ध्वननव्यापारः । तेन यद्भट्टनायकेन द्विवचनं दूषितं तद्गनिमीलिकयैव । अर्थः शब्दो वेति तु विकल्पाभिधानं प्राधान्याभिप्रायेण । काव्यं च तद्विशेषश्चासौ, काव्यस्य वा विशेषः । काव्यग्रहणाद्गुणालंकारोपस्कृतशब्दार्थपृष्ठपाती ध्वनिलक्षण आत्मेत्युक्तम् । तेनँ नैतन्निरवकाशम् श्रुतार्थापत्तावपि ध्वनिव्यवहारः स्यादिति । यच्चोक्तम्-'चारुवप्रतीतिस्तर्हि काव्यस्यात्मा स्यात्' इति तदङ्गीकुर्म एव । नास्ति खल्वयं विवाद इति । यथोक्तम् –'चारुणः प्रतीतिर्यदि काव्यात्मा प्रत्यक्षादिप्रमाणादपि सा भवन्ती तथा स्यात्' इति । तत्र शब्दार्थमयकाव्यात्माभिधानप्रस्तावे क एष प्रसङ्ग इति न किंचिदेतत् । स इति । अर्थो वा शब्दो वा, व्यापारो वा । अर्थोऽपि वाच्यो वा ध्वनतीति । शब्दोऽप्येवं व्यङ्गयो वा ध्वन्यत इति । व्यापारो वा शब्दार्थयोर्ध्वननमिति । कारिकया तु प्राधान्येन समुदाय एव वाच्यरूपमुखतया ध्वनिरिति प्रतिपादितम् । विभक्त इति । गुणालंकाराणां वाच्यवाचकभावप्राणवात् । १. 'वाचकविशेषः' क-ख-पुस्तकयो स्ति. १. 'पूर्व प्रकृते' क-ख. २. 'खश्चासा' क-ख. ३. 'तो' ग-पुस्तके नास्ति. ४. 'तो गुणीभूतौ क-ख-पुस्तकयो स्ति. ५. 'व्यतः द्योतयतः' ग-पुस्तके नास्ति. ६. 'ध्वननं' क-ख. ७. 'तेनैतत्' ग. ८. 'काव्याभिधान' ग. ९. 'कश्चित्' क-ख. १०. 'प्रतिपादितः' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy