________________
३ उक्ष्योतः] ध्वन्यालोकः ।
१७९ इत्यादौ । अत्र हि शृङ्गारबीभत्सयोस्तदङ्गयोर्वा वीररसव्यवधानेन समावेशो न विरोधी।
विरोधमविरोधं च सर्वत्रेत्थं निरूपयेत् । विशेषतस्तु शृङ्गारे सुकुमारतरो ह्यसौ ॥२८॥ यथोक्तलक्षणानुसारेण विरोधाविरोधौ सर्वेषु रसेषु प्रबन्धेऽन्यत्र च निरूपयेत्सहृदयः । विशेषतस्तु शृङ्गारे । स हि रतिपरिपोषात्मकत्वाद्रतेश्व
खल्पेनापि निमित्तेन भङ्गसंभवात्सुकुमारतरः सर्वेभ्यो रसेभ्यो मनागपि विरोधिसमावेशं न सहते ।
अवधानातिशयवान्रसे तत्रैव सत्कविः ।
भवेत्तस्मिन्प्रमादो हि झगित्येवोपलक्ष्यते ॥ २९ ॥ तत्रैव च रसे सर्वेभ्योऽपि रसेभ्यः सौकुमार्यातिशययोगिनि कविरवधानवान्प्रयत्नवान्स्यात् । तत्र हि प्रमाद्यतस्तस्य सहृदयमध्ये क्षिप्रमेवावज्ञानविषयता भवति । शृङ्गाररसो हि संसारिणां नियमेनानुभवविषयत्वात्सर्वरसेभ्यः कमनीयतया प्रधानभूतः । एवं च सति
विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा। तद्विरुद्धरसस्पर्शस्तदङ्गानां न दुष्यति ॥ ३० ॥
न बीभत्सः । किं तु रतिजुगुप्से हि वीरं प्रति व्यभिचारीभूते । भवत्वेवम्, तथापि प्रकृतोदाहरणता तावदुपपन्ना । तदाह-तदनयोति । तयोरङ्गे तत्स्थायिभावावि. त्यर्थः । वीरो रस इति । 'वीराः खदेहान्' इत्यादिना तदीयोत्साहायवगत्या कर्तृकर्मणोः समस्तवाक्यार्थानुयायितया प्रतीतिरिति । मध्यपाठाभावेऽपि सुतरां वीरस्य व्यवधायकतेति भावः । अन्यत्र चेति मुक्तकादौ । स हि शृङ्गारः सुकुमारतम इति संबन्धः । सुकुमारस्तावद्रससजातीयः ततोऽपि करुणस्ततोऽपि शृङ्गार इति । एवं चेति । यतो. ऽसौ सर्वसंवादीत्यर्थः । तदित्थं शृङ्गारस्य विरुद्धा ये शान्तादयस्तष्वपि तदङ्गानां शृङ्गाराङ्गाणां संबन्धी स्पर्शी न दुष्टः । तया भङ्ग्या रसान्तरगता अपि विभावानुभावाद्या वर्णनीया ययोः शृङ्गारोऽङ्गभावमुपागमत् । यथा ममैव स्तोत्रे-खां चन्द्रचूडं सहसा स्पृशन्ती प्राणेश्वरं गाढवियोगतप्ता । सा चन्द्रकान्ताकृतिपुत्रिकेव संविद्विलीयापि
१. 'तमः' क-ख. २. 'झटिति' ग. ३. 'प्रयतः' क-ख. ४. 'भविष्यति' क-ख. ५. 'सर्वसंसारिणां' क-ख.
१. 'वीररसस्य' क-ख. २. 'दैवस्तोत्रे' ग. .