________________
१७८
काव्यमाला। रौद्रयोरपि तथा प्रसङ्गः । दयावीरादीनां च चित्तवृत्तिविशेषाणां सर्वाकारमहंकाररहितत्वेन शान्तरसप्रभेदत्वम् , इतरथा तु वीरप्रभेदत्वमिति व्यवस्थाप्यमाने न कश्चिद्विरोधः । तदेवमस्ति शान्तो रसः । तस्य चाविरुद्धरसव्यवधानेन प्रबन्धे विरोधिरससमावेशे सत्यपि निर्विरोधत्वम् । यथा प्रदर्शिते विषये । एतदेव स्थिरीकर्तुमिदमुच्यते
रसान्तरान्तरितयोरेकवाक्यस्थयोरपि ।
निवर्तते हि रसयोः समावेशे विरोधिता ॥ २७॥ रसान्तरव्यवहितयोरेकप्रबन्धस्थयोर्विरुद्धयोर्विरोधिता निवर्तत इत्यत्र न काचिद्धान्तिः । यस्मादेकवाक्यस्थयोरपि रसयोरुक्तया नीत्या विरुद्धता निवर्तते । यथा
'भूरेणुदिग्धान्नवपारिजातमालारजोवासितबाहुमध्याः । गाढं शिवाभिः परिरभ्यमाणान्सुराङ्गनाश्लिष्टभुजान्तरालाः ॥ सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान् । संवीजिताश्चन्दनवारिसेकैः सुगन्धिभिः कल्पलतादुकूलैः ।। विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् ।
निर्दिश्यमानांल्ललनाङ्गुलीभिर्वीराः खदेहान्पतितानपश्यन् ।' वा नासौ कश्चित् । शान्तस्यैवेदं नामान्तरकरणम् । तथा च मुनिः–'दानवीरं धर्मवीरं युद्धवीरं तथैव च । दयावीरमपि प्राह ब्रह्मा त्रिविधसंमतम् ॥' इत्यागमपुरःसरं त्रैविध्यमेवाभ्यधात् । तदाह-दयावीरादीनामिति । आदिग्रहणेन विषयजुगुप्सारूपत्वाद्वीभत्सेऽन्तर्भावः शक्यते । सा वस्य व्यभिचारिणी भवति न तु स्थायितामेति । पर्यन्तनिर्वाहे तस्या मूलत एव विच्छेदात् । आधिकारिकलेन तु शान्तो रसो निबद्धव्य इति चन्द्रिकाकारः। तचेहास्माभिर्न पर्यालोचितम् । प्रसङ्गान्तरात् । मोक्षफलखेन चायं परमपुरुषार्थनिष्ठितत्वात्सर्वरसेभ्यः प्रधानतमः । से चायमस्मदुपाध्यायभट्टतौतेन काव्यकौतुके, अस्माभिश्च तद्विवरणे बहुतरकृतनिर्णयः पूर्वपक्षसिद्धान्त इत्सलं बहुना । स्थिरीकर्तुमिति । शिष्यबुद्धावित्यर्थः । अपिशब्देन प्रबन्धविषयतया सिद्धोऽयमर्थ इति दर्शयति-भूरेण्विति । विशेषणैरतीव दूरापेतत्वमसंभावनास्पदलमुक्तम् । स्वदेहानां.........न । देहवाभिमानादेव तादात्म्यसंभावनानिष्पत्तरेकाश्रयत्वमस्ति । अन्यथा विभिन्न विषयलात्को विरोधः । ननु वीर एवात्र रसो न शृङ्गारो
१. 'यदा' ग. २. 'स चायं शान्तो रसः' ग. ३. 'निर्वहणः' ग. ४. 'प्रबन्धेषु यत्नसिद्धः' क-ख. ५. 'दूरापेतवसंभावनानिवृत्तेरेकाश्रयत्वमस्ति' क-ख.