________________
१७७
३ उड्योतः] ध्वन्यालोकः ।
यदि नाम सर्वजनानुभवगोचरता तस्य नास्ति नैतावतासावलोकसामान्यमहानुभावचित्तवृत्तिविशेषवत्प्रतिक्षेप्तुं शक्यः । वीरे च तस्यान्तर्भावः कर्तुं युक्तः । तस्याभिमानमयत्वेन व्यवस्थापनात् । अस्य चाहंकारप्रशमैकरूपतया स्थितेः । तयोश्चैवंविधविशेषसद्भावेऽपि यद्यैक्यं परिकल्प्यते तद्वीर
सुखं तस्य यः स्थायीभूतस्य परिपोषो रस्यमानताकृतस्तदेव लक्षणं यस्य स शान्तो रसः । प्रतीयत एवेति । स्वानुभवेनापि निवृत्तभोजनाद्यशेषविषयेच्छाप्रसरत्वकाले संभाव्यत एव । अन्ये तु सर्वचित्तवृत्तिप्रशम एवास्य स्थायीति मन्यन्ते । तृष्णासद्भावस्य प्रसज्यप्रतिषेधरूपत्वे चेतोवृत्तित्वाभावेन भावत्वायोगात् । पैयुदासे खस्मत्पक्ष एवायम् । अन्ये तु 'खं खं निमित्तमासाद्य शान्तादुत्पद्यते रसः । पुनर्निमित्तापाये तु शान्त एव प्रलीयते ॥' इति भरतवाक्यं दृष्टवन्तः सर्वरससामान्यस्वभावं शान्तमाचक्षाणा अनुपजातविशेषान्तरं चित्तवृत्तिरूपं शान्तस्य स्थायिभावं मन्यन्ते । एतच्च नातीवास्मत्पक्षाद्दरम् । प्रागभावप्रध्वंसाभावकृतस्तु विशेषः । युक्तश्च प्रध्वंस एव तृष्णानाम् । यथोक्तम्-'वीतरागजन्मादर्शनात्' इति । प्रतीयत एवेति मुनिनाप्यङ्गीक्रियत एव "क्वचिच्छमः' इत्यादि वदता । न च तदीयापर्यन्तावस्था वर्णनीया येन सर्वचेष्टोपरमादनुभवाभावेनाप्रतीयमानता स्यात् । 'शृङ्गारादेरपि फलभूमाववर्णनीयतैव पूर्वभूमौ तु प्रशान्तवाहिता,' 'संस्कृतान्तश्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः' इति सूत्रद्वयनीत्या चित्राकारा यमनियमादिचेष्टा वा राज्यधरोद्वहनादिलक्षणा वा शान्तस्यापि जनकादेर्दुष्टैवेत्यनुभवसद्भावाद्यमनियमादिमध्यासंभाव्यमानभूयोव्यभिचारिसद्भावाच्च प्रतीयत एव । ननु न प्रतीयते । नास्य विभावादयः सन्तीति चेत्, न । प्रतीयत एव तावदसौ । तस्य च भवितव्यमेव प्राक्तनकुशलपरिपाकपरमेश्वरानुग्रहादध्यात्मरहस्यशास्त्रवीतरागपरिशीलनादिभिर्विभावैरितीयतैव व्यभिचारिसद्भावः स्थायी च दर्शितः । ननु तत्र हृदयसंवादाभावादस्यमानतैव नोपपन्ना । क एवमाह नास्तीति । यतः प्रतीयत एवेत्युक्तम् । ननु प्रतीयते सर्वस्य श्लाघास्पदं न भवति । तर्हि वीतरागाणां शृङ्गारो न श्लाघ्य इति सोऽपि रसत्वाच्यवतामिति तदाह-यदि नामेति । ननु धर्मप्रधानोऽसौ वीर एवेति संभावयमान आह-वीरे चेति । तस्येति वीरस्य । अभिमानमयत्वेनेति । उत्साहो ह्यहमेवंविध इत्येवं प्राण इत्यर्थः । अस्य चेति शान्तस्य । तयोश्चेति । उत्साहमयत्वनिरीहखेनात्यन्तविरुद्धयोरपीति च शब्दार्थः । वीररौद्रयोस्त्वत्यन्तविरोधोऽपि नास्ति । समानरूपं च धर्मार्थोपयोगिलम् । नन्वेवं दयावीरो धर्मवीरो दानवीरो
१. 'सर्वलोक' ग. २. 'न च वीरेतरस्यान्तर्भावः' ग. १. 'तच्चा' क-ख. २. 'पर्युदासोऽपि सत्पक्ष एव' क-ख. ३. 'मध्यसद्भावमान' क-ख. ४. 'घनस्य' क-ख.