________________
१८०
काव्यमाला। शृङ्गारविरुद्धरसस्पर्शः शृङ्गाराङ्गाणां यः स न केवलमविरोधलक्षणयोगे सति न दुष्यति यावद्विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा क्रियमाणो न दुष्यति । शृङ्गाररसाङ्गैरुन्मुखीकृताः सन्तो हि विनेयाः सुखं विनयोपदेशं गृह्णन्ति । सदाचारोपदेशरूपा हि नाटकादिगोष्ठी विनेयजनहितार्थमेव मुनिभिरवतारिता । किं च शृङ्गारस्य सकलजनमनोहराभिरामत्वात्तदङ्गसमावेशः काव्यशोभातिशयं पुष्यतीत्यनेनापि प्रकारेण विरोधिरसे शृङ्गाराङ्गसमावेशो न विरोधी । ततश्च ।
'सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः ।
किं तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥' इत्यादिषु नास्ति रसविरोधदोषः ।
विलीयते मे ॥' इत्यत्र शान्तविभावानुभावानामपि शृङ्गारभङ्ग्या निरूपणं विनेयानुन्मुखीकर्तु या काव्यशोभा तदर्थ नैव दुष्यतीति संबन्धः । वाग्रहणेन पक्षान्तरमुच्यते । तदेव व्याचष्टे-न केवलमिति । वाशब्दस्यैतद्याख्यानम् । अविरोधलक्षणं परिपोषपरिहारादिपूर्वोक्तम् । तदर्थमपि वा विरुद्धसमावेशः । न केवलं पूर्वोक्तैः प्रकारैः काव्यशोभा विनेयोन्मुखीकरणमन्तरेणास्ते । व्यवधानाव्यवधाने अपि केचिल्लभ्येते यथान्याख्याते। सुखमिति । रञ्जनापुरःसरमित्यर्थः । न तु काव्यं क्रीडारूपं क्व च वेदादिगोचरा उपदेशकथा इत्याशङ्कयाह-सदाचारेति । मुनिभिरिति । भरतादिभिरित्यर्थः । एतच्च प्रभुमित्रसंमितेभ्यः शास्त्रेतिहासेभ्यः प्रीतिपूर्वकं जायासंमितले नाट्यकाव्यगतं व्युत्पत्तिकारिवं पूर्वमेव निरूपितमस्माभिरिति न पुनरुक्तभयादिह लिखितम् । ननु शृङ्गाराङ्गताभङ्ग्या यद्विभावादिनिरूपणमेतावतैव किं विनेयोन्मुखीकारः । नैतदस्ति प्रकारान्तरमिति तदाह-किं चेति । शोभातिशयमिति । अलंकारविशेषमुपमाप्रभृतिं पुष्यति सुन्दरीकरोतीत्यर्थः । यथोक्तम्-'काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलंकारा इति ।' मत्ताङ्गनेति । अत्र हि शान्तविभावे सर्वस्यानित्यवे वक्ष्यमाणे न कस्यचिद्विभावस्य शृङ्गारभङ्ग्या निबन्धः कृतः । किं तु सत्यमिति परहृदयानुप्रवेशेनोक्तम् । न खल्वलीकवैराग्यकौतुकरुचिं प्रकटयामः अपि तु यस्य कृते सर्वमभ्यर्थ्यते तदेवेदं चलमिति । तत्र
१. 'मनोभिरामवात्' ग. २. 'काव्ये' ग. ३. 'शृङ्गारविरोधिनि रसे' क-ख. १. तदेतत्' क-ख.२. 'केनचित्' क-ख. ३. व्याख्यायते' क-ख. ४. 'उक्तिःक-ख.