________________
१ उझ्योतः]
ध्वन्यालोकः। काव्यस्य हि ललितोचितसंनिवेशचारुणः शरीरस्येवात्मा साररूपतया स्थितः सहृदयश्लाघ्यो योऽर्थस्तस्य वाच्यः प्रतीयमानश्चेति द्वौ भेदौ ।
वाच्येन समशीर्षिकागणनं तस्याप्यनपह्नवनीयत्वं प्रतिपादयितुम् । स्मृतावित्यनेन यः समानातपूर्व इति द्रढयति । शब्दार्थशरीरं काव्यमिति यदुक्तं तत्र शरीरग्रहणादेव केनचिदात्मना तदनुप्राणकेन भाव्यमेव । तत्र शब्दस्तावच्छरीरभाग एव संनिविशते । सर्वजनसंवेद्यधर्मत्वात्स्थूलकृशादिवत् । अर्थः पुनः सकलजनसंवेद्यो न भवति । न ह्यर्थमात्रेण काव्यव्यपदेशः । लौकिकवैदिकवाक्येषु तदभावात् । तदाह-सहृदयश्लाघ्य इति । स एक एवार्थो द्विशाखतया विवेकिभिर्विभागबुद्ध्याभियुज्यते । तथाहि-तुल्येऽर्थरूपत्वे किमिति कस्मैचित्सहृदयः श्लाघते । तद्भवितव्यं केनचिद्विशेषेण । यो विशेषः स प्रतीयमानभागो विवेकिभिर्विशेषहेतुत्वादात्मेति व्यवस्थाप्यते । वाच्यसंकलनाविमोहितहृदयैस्तु तत्पृथग्भावो विप्रतिपद्यते चार्वाकरिवात्मपृथग्भावः । अत एवार्थ इत्येकतयोपक्रम्य सहृदयश्लाघ्य इति विशेषणद्वारा हेतुमभिधाोपोद्धारणदृशा तस्य द्वौ भेदावंशावित्युक्तम् । न तु द्वावप्यात्मानौ कोव्यस्य । काव्यात्मेति कारिकाभौगगतं काव्यशब्दं व्याकर्तुमाह-काव्यस्य हीति । ललितशब्देन गुणालंकारग्रहणमाह । उचितशब्देन रसविषयमेवौचित्यं भवतीति दर्शयन्सध्वनेर्जीवित्वं सूचयति । तदभावे हि किमपेक्षयेदमौचित्यं नाम सर्वत्रोद्धोष्यत इति भावः । योऽर्थ 'ईति येतानुवदन्परेणाप्येतत्तावदभ्युपगतमिति दर्शयति-तस्येत्यादिना । तदभ्युपगम एव बुद्ध्यंशत्वे सत्युपपद्यत इति दर्शयति । तेन यदुक्तम्-'चौरुत्वहेतुत्वाद्गुणालंकारव्यतिरिक्तो न ध्वनिः' इति तत्र ध्वनेरात्मस्वरूपत्वाद्धेतुरसिद्ध इति दर्शितम् । ने ह्यात्मा चारुत्वहेतुर्दैहस्येति भवति । अथाप्येवं स्यात्तथापि वाच्ये नानैकान्तिको हेतुः । न ह्यलंकार्य एवालंकारः । गुणी एवं गुणः । तदर्थमपि वाच्यांशोपक्षेपः । अत एव वक्ष्यति-'वाच्यः प्रसिद्धः' इति ।।
१. 'स्मृतः' क-ख. २. 'यो' क-ख-पुस्तकयो स्ति.
१. "निर्वहणादेव' ग. २. 'संनिर्विशते' ख. ३. 'व्यवहारः' ग. ४. "विभज्यते' ग. ५. 'कस्मैचिदेव सहृदयाः श्लाघन्ते । तत्र भवितव्यं' ग. ६. 'यतो विशेषः' ग. ७. 'संवलना' ग. ८. 'भावे' ग. ९. 'भावे' ग. १०. 'इत्येक' ग-पुस्तके नास्ति. ११. 'उपोद्धारदृशा' ग. १२. 'काव्यस्य' क-ख-पुस्तकयो स्ति. १३. 'भाग' गपुस्तके नास्ति. १४. 'मिलित' ग. १५. 'अनुग्रह' ग. १६. 'सूत्रयति' ग. १७. 'इत्ये वेति' ग. १८. 'इतीयत्ता' क., 'इतीयता' ख., 'इति यदा' ग. १९. यता यच्छदेनेत्यर्थः. २०. 'तावत्' ग-पुस्तके नास्ति. २१. 'चारुत्वहेतुत्वाद्धेतुरसिद्ध इति दर्शितम्' कःख. २२. 'न त्वात्मा' ग. २३. 'वा' ग. २४. 'एतदर्थमपि' ग.