________________
काव्यमाला।
'तत्र वाच्यः प्रसिद्धो यः प्रकारैरुपमादिभिः ।
बहुधा व्याकृतः सोऽन्यैः काव्यलक्ष्मविधायिमिः ॥३॥ ततो नेह प्रतन्यते केवलमनूद्यते पुनर्यथोपयोगमिति । प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् । यत्तत्प्रसिद्धावयवातिरिक्तं विभाति लावण्यमिवाङ्गनासु ॥४॥
तत्रेति । द्यशत्वे सत्यपीत्यर्थः । प्रसिद्ध इति । वनितावदनोद्यानेन्दूदयादिवल्लौकिक एवेत्यर्थः । उपमादिभिः प्रकारैः स व्याकृतो बहुधेति संगतिः । अन्यैरिति कारिकाभागं काव्येत्यादिना व्याचष्टे-ततो नेह प्रतन्यत इति । विशेषप्रतिषेधेन शेषाभ्यनुज्ञेति दर्शयति-केवलमित्यादिना । पुनःशब्दो वाच्याद्विशेषद्योतकः ।
अन्यदेव वस्त्विति । तद्यतिरिक्त सारभूतं चेत्यर्थः । महाकवीनामिति बहुवचनमशेषविषयाव्यापकत्वमाह । एतदभिधास्यमानप्रतीयमानानुप्राणितकाव्यनिर्माणनिपुणप्रतिभाभाजनत्वेनैव महाकविव्यपदेशो भवतीति भावः । यदेवंविधमस्ति तद्भाति । न ह्यत्यन्तासतो मानमुपपन्नम् । रजताद्यपि नात्यन्तमसद्भाति । अनेन सत्त्वप्रयुक्तं तावद्भानमिति भोसनात्मत्वमवगम्यते । तेन यद्भाति तदस्ति तथेत्युक्तं भवति । तेनायं प्रयोगार्थःप्रसिद्धं वाच्यं धर्मिप्रतीयमानेन व्यतिरिक्तेन तद्वत्तथा भासमानत्वाल्लावण्यापेताङ्गनाङ्गवत् । प्रसिद्धशब्दस्य 'सर्वप्रतीतत्वमलंकृतत्वं चार्थः । यत्तदिति सर्वनामसमुदायश्चमत्कारसारताप्रकटीकरणार्थमव्यपदेश्यत्वमन्योन्यसंवलनाकृतं चाव्यतिरेकिभ्रमं दृष्टान्तदार्टान्तिकयोर्दर्शयति । एतच्च किमपीत्यादिना व्याचष्टे । लावण्यं हि नामावयवसंस्थानाभिव्यनयमवयवव्यतिरिक्तं धर्मान्तरमेव । न चावयवानामेव निर्दोषता वा भूषणयोगो वा लाव. ण्यम् । पृथनिर्वर्ण्यमानकाणादिदोषशून्यशरीरावयवयोगिन्यामप्यलंकृतायामपि लावण्यशून्येयमिति, अतथाभूतायामपि कस्यांचिल्लावण्यामृतचन्द्रिकेयमिति सहृदयानां व्यवहारात् । ननु लावण्यं तावद्यतिरिक्तं प्रथितम् । प्रतीयमानं किं तदित्येव न जानीमः । दूरे तु व्यतिरिक्तप्रथेति तथाभासमानत्वमसिद्धो हेतुरित्याशय स ह्यर्थ इत्या
१. 'भट्टोद्भटप्रभृतिभिस्ततो' ग. २. 'पुनः' सर्वेषु पुस्तकेषु नास्ति. ३. 'आभाति' ग.
१. 'वाच्यांशात्' ग. २. 'रिक्तासारभूतं' ग. ३. 'महा' ग-पुस्तके नास्ति. ४. “विषयव्यापकमाह' क-ख. ५. 'मानं' क-ख. ६. 'यद्येवं' ग. ७. 'भवति' ग. ८. 'भाग' ग. ९. 'भानात्सत्त्वमवगम्यते' ग. १०. 'अतो यद्भाति' ग. ११. 'शब्दप्रतीतत्वं' क-ख. १२. 'व्यतिरेकभ्रम' क-ख. १३. 'इत्यनेन' ग. १४. 'व्यङ्गय इवावयव' ग. १५. "धर्माक्रम' ग. १६. 'इत्येवं जानीमः' ग. १७. 'व्यतिरेक' ग.