________________
१ उक्ष्योतः] ध्वन्यालोकः।
१५ प्रतीयमानं पुनरन्यदेव वाच्याद्वस्त्वस्ति वाणीषु महाकवीनाम् । यत्तत्सहृदयहृदयसुप्रसिद्धं प्रसिद्धेभ्योऽलंकृतेभ्यः प्रतीतेभ्यो वावयवेभ्यो व्यतिरिक्तत्वेन प्रकाशते लावण्यमिवाङ्गनासु । यथा ह्यङ्गनासु लावण्यं पृथगिर्वर्ण्यमानं निखिलावयवव्यतिरेकि किमप्यन्यदेव सहृदयलोचनामृतं तत्त्वान्तरं तद्वदेव सोऽर्थः । स ह्यर्थो वाच्यसामर्थ्याक्षिप्तं वस्तुमात्रमलं. कारा रसादयश्चेत्यनेकप्रभेदप्रभिन्नो दर्शयिष्यते । सर्वेषु च तेषु प्रकारेषु
दिना खरूपं तस्याभिधत्ते । सर्वेषु चेत्यादिना च व्यतिरेकप्रथां साधयिष्यति । तंत्र प्रतीयमानस्य तावद्वौ भेदौ-लौकिकः, काव्यव्यवहारगोचरश्चेति । लौकिको यः शब्दवाच्यतां कदाचिदैधिशेते । स च विधिनिषेधाद्यनेकप्रकारो वस्तुशब्देनोच्यते । सोऽपि द्विविधः । यः पूर्व क्वापि वाक्यालंकारभावमुपमादिरूपतयान्वभूत् , इदानीं बनलं. काररूप एवान्यत्र गुणीभावाभीवादपूर्वप्रत्यभिज्ञानबलादलंकारध्वनिरिति व्यपदिश्यते । ब्राह्मणश्रमणन्यायेन तद्रूपताभावेन तूपलक्षितं वस्तुमात्रमुच्यते । मात्रग्रहणेन हि रूपान्तरं निराकृतम् । यस्तु स्वप्नेऽपि न खशब्दवाच्यो न लौकिकव्यवहारपतितः, किं तु शब्दसमर्प्यमाणहृदयसंवादसुन्दरविभावानुभावसमुदितप्रानिविष्टरत्यादिवासनानुराग-- सुकुमारखेसंविदानन्दचर्वणव्यापाररसनीयरूपो रसः । स च काव्यव्यापारैकगोचरो रसध्वनिरिति । स च ध्वनिरेवेति स एव मुख्यतयात्मेति । यदूचे मॅटनायकेन'अंशवं न रूपिता' इति, तद्वस्वलंकारध्वन्योरेव यदिनामोपालम्भः, रसध्वनिस्तु तेनैवात्मतयाङ्गीकृतः । रसचर्वात्मनस्तृतीयस्यांशस्याभिधाभावनांशद्वयोत्तीर्णवेन निर्णयाद्वस्वलंकारध्वन्यो रसध्वनिपर्यन्तमेवेति वयमेव वक्ष्यामस्तैत्रेत्यास्तां तावद्वाच्यसाम•क्षिप्त इति भेदत्रयव्यापकं सामान्यलक्षणम् । यद्यपि हि२४ ध्वननं शब्दस्यैव व्यापारः,
१. 'हृदय' क-ख-पुस्तकयो स्ति. २. 'चावयवेभ्यः' ख. ३. 'अपृथक्पृथडिर्वर्ण्यमानं' ग.
१. 'सर्वेष्वित्यादिना' क. २. 'तत्तु' ग. ३. 'काव्यव्यापार' क-ख. ४. 'इति' क-ख-पुस्तकयो स्ति. ५. 'खशब्दवाच्यताः कदाचिदध्यशेते' ग. ६. 'शब्दो वाच्यतां' ख. ७. 'अपि शेते' ख. ८. 'वस्तुभेदेन' क-ख. ९. 'वाक्यार्थोऽलंकार' क-ख. १०. 'भावात्मपूर्व' क-ख. ११. 'अपदिश्यते' क-ख. १२. 'तद्रूपाभावेन' क-ख. १३. 'समीक्ष्यमाण' ग. १४. 'समुचितप्राग्विनिविष्ट' ग. १५. 'सुसंविदा' क-ख. १६. 'चर्वणा' ग. १७. 'च' ग-पुस्तके नास्ति. १८. 'भट्टनायकः अङ्गवं न रूपतेति' ग. १९. 'उपालब्धः ' ख, 'उपारम्भः' ग. २०. 'आत्मना' क. २१. 'द्वयोक्तिर्न तैरूनयावस्त्वलंकार' ग. २२. 'तत्र तेभ्यस्तावत्' क. २३. 'क्षिप्तं' क-ख. २४. 'हि' क-ख-पुस्तकयो स्ति.