SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १२ काव्यमाला । तत्र पुनर्वनेर्लक्षयितुमारब्धस्य भूमिका रचयितुमिदमुच्यते'अर्थः सहृदयश्लाघ्यः काव्यात्मा यो व्यवस्थितः। वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ ॥२॥ धाभावनारसचर्वणात्मकेऽपि त्र्यंशे काव्ये रसचर्वणा तावज्जीवितभूतेति भवतोऽप्यविवादोऽस्ति । यथोक्तं त्वयैव–'काव्ये रसयिता सर्वो न बोद्धा न नियोगभाक्' इति । तद्वस्त्वलंकारध्वन्यभिप्रायेणाङ्गमात्रत्वमिति सिद्धसाधनम् । रसध्वन्यभिप्रायेण तु खाभ्युपगमप्रसिद्धिसंवेदनविरुद्धमिति । तत्र कवेस्तावत्कीर्त्यापि प्रीतिरेव संपाद्या । यदाह'कीर्ति स्वर्गफलामाहुः' इत्यादि । श्रोतृणां च व्युत्पत्तिर्यद्यप्यस्ति, यथोक्तम्-'धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कीर्ति प्रीतिं च साधुकाव्यनिषेणम् ॥' इति तथापि प्रीतिरेव प्रधानम् । अन्यथा प्रभुसंमितेभ्यो वेदादिभ्यो मित्रसंमितेभ्यश्चेतिहासादिभ्यो व्युत्पत्तिहेतुभ्यः कोऽस्य काव्यरूपस्य व्युत्पत्तिहेतोर्जायासंमितत्वलक्षणो विशेष इति प्राधान्येनानन्द एवोक्तः । चतुर्वर्गव्युत्पत्तरपि चानन्द एव पार्यन्तिकं मुख्यं फलम् । आनन्द इति च ग्रन्थकृतो नाम । तेन स एवानन्दवर्धनाचार्य एतच्छास्त्रद्वारेण सहृदयहृदयेषु प्रतिष्ठां देवतायतनादिवदनश्वरी स्थितिं लभताम् । सिद्धिं गच्छत्विति भावः। यथोक्तम्-'उपेयुषामपि दिवं सन्निबन्धविधायिनाम् । आँस्त एव निरातङ्कं कान्तं काव्यमयं वपुः ॥' इति । तथा मनसि प्रतिष्ठामिति एवंविधस्य मनसः सहृदयचक्रवर्ती खल्वयं ग्रन्थकृदिति भावः । यथा-'युद्धे प्रतिष्ठा परमार्जुनस्य' इति । खनामप्रकटीकरणं श्रोतृणां प्रवृत्त्यङ्गमेव संभावनात्ययोत्पादकमुखेनेति ग्रन्थान्ते वक्ष्यामः । एवं ग्रन्थकृतः कवेः श्रोतुश्च मुख्य प्रयोजनमुक्तम् ।। ननु 'ध्वनिखरूपं ब्रूम' इति प्रतिज्ञाय वाच्यप्रतीयमानाख्यौ द्वौ भेदावर्थस्येति व्याख्याभिधाने का संगतिः कारिकाया इत्याशय संगतिं कर्तुमवतरणिकां करोतितत्रेति । एवं विधेऽभिधेये प्रयोजने च स्थित इत्यर्थः । भूमिरेव भूमिका । यथापूर्वनिर्माणे चिकीर्षिते पूर्वं भूमिरेव विरच्यते तथा ध्वनिखरूपे प्रतीयमानाख्ये निरुपयतव्ये निर्विवादसिद्धवाच्याभिधानं भूमिः । तत्पृष्ठेऽधिकप्रतीयमानांशोल्लिङ्गनात् । १. 'पुनः' ग-पुस्तके नास्ति. १. 'अंशमात्रलं' ग. २. 'स्वार्थापगम' ग. ३. 'इत्यादौ' क-ख. ४. व्युत्पत्तिप्रीती यद्यपि स्तः' ग. ५. 'निबन्धनम्' क-ख. ६. 'वेदादिशास्त्रेभ्यो' क-ख. ७. 'हेतुजाया' ग. ८. 'देवायतनादि' ग. ९. 'स्थितिं लभताम्' क-ख-पुस्तकयोर्नास्ति. १०. 'आस्थयेव' ग. ११. 'यथा' ख. १२. 'यावत्' क-ख. १३. 'प्रत्ययोपादानमुखेन' ग. १४. ग-पुस्तके 'तत्रेति' इत्यादि 'इत्यर्थः' इत्यन्तं प्रथमम् , 'ननु ध्वनिखरूपं' इत्यादि 'करोति' इत्यन्तं चानन्तरं वर्तते. १५. 'अस्येति' ग. १६. 'करोति ध्वनेरेवेत्यादिना' ग. १७. 'इव' ग. १८. 'निरूपितव्ये' क-ख. १९. 'आलिङ्गनात्' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy