SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ १ उक्ष्योतः] ध्वन्यालोकः। दयमनःप्रीतये तत्वरूपं ब्रूमः। तस्य हि ध्वनेः स्वरूपं सकलसत्कविकाव्योपनिषद्भूतमतिरमणीयमणीयसीभिश्चिरंतनकाव्यलक्षणविधायिनां बुद्धिभिरनुन्मीलितपूर्वम् । अथ च रामायणमहाभारतप्रभृतिनि लक्ष्ये सर्वत्र प्रसिद्धव्यवहारं लक्षयतां सहृदयानामानन्दो मनसि लभतां प्रतिष्ठामिति प्रकाश्यते । यो विमतिप्रकारस्तेनैव हेतुना तत्वरूपं ब्रूम इति ध्वनिखरूपमभिधेयम् । अभिधानाभिधेयलक्षणयोर्ध्व निशास्त्रयोर्वक्तश्रोत्रोर्युत्पाद्यव्युत्पादकभावः संबन्धः । विमतिनिवृत्त्या तत्वरूपज्ञानं प्रयोजनम् । शास्त्रप्रयोजनयोः साध्यसाधनभावः संबन्ध इत्युक्तम् । अथ त्रितयप्रयोजनप्रतिपादकं 'सहृदयमनःप्रीतये' इति भागं व्याख्यातुमाह-तस्य हीति । विमतिपदपतितस्येत्यर्थः । ध्वनेः स्वरूपं लक्षयतां संबन्धिनि मैनसि आनन्दो निर्वृत्यात्मा चमत्कारापरपर्यायः प्रतिष्ठां परैर्विपर्यासाद्युपहतैरनुन्मील्यमानत्वेन स्थेमानं लभतामिति प्रयोजनं संपादयितुं तत्स्वरूपं प्रकाश्यत इति संगतिः । प्रयोजनं च नाम तत्संपादकवस्तुप्रयोक्तताप्राणतयैव तथा भवतीत्याशयेन प्रीतये तत्वरूपं ब्रूम इत्येकवाक्यतया व्याख्यातं तत्स्वरूपशब्दं व्याचक्षाणः संक्षेपेण तावत्पूर्वोदीरितविकल्पप॑ञ्चकोद्धरणं प्रथयति-सकलेत्यादिना । सकलशब्देन सत्कविशब्देन च प्रकारलेशे कस्मिश्चिदिति निराकरोति । अतिरमणीयमिति भाक्ताव्यतिरिक्तमाह । नहि 'सिंहो बटुः' 'गङ्गायां घोषः' इत्यत्र रम्यता काचित् । उपनिषद्भुतशब्देन तु अपूर्वसमाख्यामात्रकरण इत्यादि निराकृतम् । अणीयसीभिरित्यादिना गुणालंकारानन्तर्भूतत्वं सूचयति । अथ चेत्यादिना तत्समयान्तःपातिन इत्यादिना यत्सामयिकत्वं शङ्कितं तन्निरवकाशीकरोति । रामायणमहाभारतशब्देनादिकवेः प्रभृति सर्वैरेव मुनिभिरस्यादरः [कृतः] इति दर्शयति । लक्षयतामित्यनेन वाचां स्थितमविषय इति परास्यति । लक्ष्यतेऽनेनेति लक्ष्यो लक्षणम् । लक्ष्येण निरूपयन्ति लक्षयन्ति तेषाम् । लक्षणद्वारेण निरूपयतामित्यर्थः । सहृदयानामिति । येषां काव्यानुशीलनाभ्यासवशाद्विशदीभूते मनोमुकुरे वर्णनीयतन्मयीभवनयोग्यता ते हृदयसंवादभाजः सहृदयाः । यथोक्तम्-'योऽर्थो हृदयसंवादी तस्य भावो रसोद्भवः । शरीरं व्याप्यते तेन शुष्कं काष्ठमिवाग्निना ॥' इति । आनन्द इति । रसस्य चर्वणात्मनः प्राधान्यं दर्शयन्सध्वनेरेव सर्वत्र मुख्यभूतमात्मत्वमिति दर्शयति । तेन यदुक्तम्-ध्वनिर्नामापरो योऽसौ व्यापारो व्यञ्जनात्मकः । तस्य सिद्धेऽपि भेदे स्यात्कोव्याङ्गत्वं न रूपिता ॥' इति तदपहस्तितं भवति । तथा ह्यभि १. 'अणीयसीभिरपि' ग. १. 'साधकभाव इत्युक्तम्' क-ख. २. 'अतः श्रोतृगतप्रयोजन' ग. ३. 'मनसि हृदये' क-ख. ४. 'पञ्चतोद्धरणं' ग. ५. 'व्यतिरेकमाह' ग. ६. 'क्वचित्' ख. ७. 'त एव' ग. ८. 'असिद्धे' ग. ९. 'काव्येऽशत्वं न रूपतेति । एतेनापहस्वितं' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy