SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १० काव्यमाला । त्याहुः । यद्यपि च ध्वनिशब्दसंकीर्तनेन काव्यलक्षणविधायिभिर्गुणवृचिरन्यो वा न कश्चित्प्रकारः प्रकाशितः, तथापि गुणवृत्त्या काव्येषु व्यवहारं दर्शयता ध्वनिमार्गो मनाक्स्पृष्टो लक्ष्यत इति परिकल्प्यैवमुक्तम् — 'भाक्तमाहुस्तमन्ये' इति । केचित्पुनर्लक्षणकरणशालीनबुद्धयो ध्वनेस्तत्त्वं गिरामगोचरं सहृदयहृदयसंवेद्यमेव समाख्यातवन्तः । तेनैवंविधासु विमतिषु स्थितासु सह यैर्वृत्तिरर्थान्तरे यस्य, तैरुपायैर्वृत्तिर्वा शब्दस्य यत्र स गुणवृत्तिः शब्दोऽर्थो वा । गुणद्वारेण वा वैर्तनं गुणवृत्तिर मुख्योऽभिधाव्यापारः । एतदुक्तं भवति – ध्वनतीति वा, ध्वन्यत इति वा, ध्वननमिति वा यदि ध्वनिस्तथाप्युपचरितशब्दार्थव्यापारातिरिक्तो नासौ कश्चित् । मुख्यार्थे ह्यभिधैवेति पारिशेष्यादमुख्य एव ध्वनिः । तृतीयराश्यभाचात् । ननु केनैतदुक्तं ध्वनिर्गुणवृत्तिरित्याशङ्कयाह — यद्यपि चेति । अन्यो वेति । गुणालंकारप्रकार इति यावत् । दर्शयतेति । भट्टोद्भवामनादिना । भामहोक्तं 'शब्दश्छन्दोभिधानार्थः' इत्यभिधानस्य शब्दाद्भेदं व्याख्यातुं भट्टोद्भटो बभाषे - ' शब्दना - मभिधानमभिधाव्यापारो मुख्यो गुणवृत्तिश्च' इति । वामनोऽपि 'सा सादृश्यालक्षणा वक्रोक्तिः' इति । मनाक्पृष्ट इति । तैस्तावद्धनिदिगुन्मीलिता । यथालिखितप्रतिपादकैस्तु स्वरूपविवेकं कर्तुमशक्नुवद्भिस्तत्स्वरूपविवेकोद्यतः प्रत्युतोपालभ्यते । अभअनारिकेलकल्पयथाश्रुर्तग्रन्थनोद्रन्थनमात्रेणेति । अत एवाह परिकल्प्यैवमुक्तमिति । यद्येवं न योज्यंते तदा ध्वनिमार्गः स्पृष्ट इति पूर्वपक्षेऽभिधानं विरुध्यते । शालीनबुद्धय इति । अप्रगल्भमतय इत्यर्थः । एते च त्रय उत्तरोत्तरं भव्यबुद्धयः । प्राच्या हि विपर्यस्ता एव सर्वथा । मध्यमास्तु तद्रूपं जानाना अपि संदेहेन पहुवते । अन्त्यास्त्वनपह्नुवाना अपि लक्षयितुं न जानत इति क्रमेण विपर्याससंदेहाज्ञानप्राधान्य — तेषाम् । तेनेति । एकैकोऽप्ययं विप्रतिपत्तिरूपो वाक्यार्थो निरूपणे हेतुत्वं प्रतिपद्यत इत्येकवचनम् । एवंविधासु विमतिष्विति निर्धारणे सप्तमी । आसु मध्ये एकोऽपि १. 'स्पृष्टोऽपि न' ख. १. ‘स्मृतिः’ ग. २. ‘तैरुपायैर्वा शब्दस्य यत्र गुणवृत्तः' ग. ३. 'वर्तमानं' क-ख. ४. ‘मुख्यार्थेऽप्यभिधैव’ ग. ५. 'भामहेनोक्तं' ग. ६. शब्दारछन्दोभिधानार्थाः' ग., ‘शब्दरछन्दोभिधानार्थं’ ख. ७. 'सादृश्यात्' ग-पुस्तके नास्ति. ८. 'पातैस्तु' ग. ९. ‘विवेकोद्योतः’ ख., 'विवेको न कृतः' ग. १०. ' तग्रन्थोग्रहण' ग. ११. योक्ष्यते मनाग्ध्वनि’ ग. १२. 'पक्षविधानं' ग. १३. 'निहुवते' ग. १४. 'निहुवाना' ग. १५. ‘निरूपणेऽपि’ ग. १६. 'एकोऽपि ' ग-पुस्तके नास्ति .
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy