________________
१ उक्ष्योतः]
ध्वन्यालोकः। 'यस्मिन्नस्ति न वस्तु किंचन मनःप्रहादि सालंकृति
व्युत्पन्नै रचितं च नैव वचनैर्वक्रोक्तिशून्यं च यत् । काव्यं तद्ध्वनिना समन्वितमिति प्रीत्या प्रशंसञ्जडो - नो विद्मोऽभिदधाति किं सुमतिना पृष्टः खरूपं ध्वनेः ॥' . . भाक्तमाहुस्तमन्ये । अन्ये तं ध्वनिसंज्ञितं काव्यात्मानं गुणवृत्तिरि
अनेनार्थालंकाराणामभाव उक्तः । व्युत्पन्नै रचितं च नैवे वचनैरिति शब्दालंकाराणाम् । वक्रोक्तिरुत्कृष्टा संघटना । तच्छून्यमिति शब्दार्थगुणानाम् । वक्रोक्तिशून्यशब्देन सामान्यलक्षणाभावेन सर्वालंकाराभाव उक्त इति केचित् । तैः पुनरुक्तं न पैरिहृतमित्यलम् । प्रीत्येति । गतानुगतिकानुरागेणेत्यर्थः । सुमतिनेति । जडेन पृष्टो भ्रूभङ्गकटाक्षादिभिरेवोत्तरं ददत्तत्स्वरूपं काममाचक्षीतेति भावः । एवमेतेऽभावविकल्पाः शृङ्खलाक्रमेणागताः । न त्वन्योन्यमसंबद्धा एव । तथा हि तृतीयाभावप्रकारनिरूपणोपक्रमे पुनःशब्दस्यायमेवाभिप्राय उपसंहारैक्येन संगच्छते । अभाववादस्य संभावनाप्राणत्वेन भूतत्वमुक्तम् । भाक्तवादस्त्वविच्छिन्नः पुस्तकेष्वित्यभिप्रायेण भाक्तमाहुरिति नित्यप्रवृत्तवर्तमानापेक्षयाभिधानम् । भज्यते सेव्यते प्राज्ञेन प्रसिद्धतयोद्धोष्यत इति भक्तिधर्मोऽभिधेयेन सारूप्यादिः । तत आगतो भाक्तो लाक्षणिकोऽर्थः । यदाहुः-'अभिधेयेन सारूप्यासामीप्यात्समवायतः । वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता ॥' इति । गुणसमुदायवृत्तेः शब्दस्यार्थभागस्तैक्ष्ण्या दिर्भक्तिः । तत आगतो गौणोऽर्थो भाक्तः । भक्तिः प्रतिपाये सामीप्यतैक्षण्यादौ श्रद्धातिशयः । तां प्रयोजनत्वेनोद्दिश्य तत आगतो भाक्त इति गौणो लाक्षणिकश्च । मुख्यस्य वार्थस्य भङ्गो भक्तिरित्येवं मुख्यार्थबाधननिमित्तप्रयोजनमिति त्रयसद्भाव उपचारबीजमित्युक्तं भवति । काव्यास्मानं गुणवृत्तिरिति । सामानाधिकरण्यस्यायं भावः-यद्यप्यविवक्षितवाच्ये ध्वनिभेदे 'निःश्वासान्ध इवादर्शः' इत्यादावुपचारोऽस्ति, तथापि न तदात्मैव ध्वनिः । तयतिरेकेणापि भावात् । विवक्षितान्यपरवाच्यभेदादावविवक्षिते वाच्येऽप्युपचार एव, न ध्वनिरिति वक्ष्यामः । तथा च वक्ष्यति-'भक्त्या बिभर्ति नैकत्वं रूपमेदादयं ध्वनिः । अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया ॥ [इति], 'कस्यचिद्धनिमेदस्य सा तु स्यादुपलक्षणम् ।' इति च । गुणाः सामीप्यादयः । धर्मास्तेक्ष्ण्यादयश्च । तैरुपा
१. 'मालंकृति' ख., 'सोलंकृति' ग. २. 'अभिदधातु' ग.
१. 'यन' ग. २. 'शून्य' क-ख-पुस्तकयो स्ति. ३. 'परिहृतमेवेत्यलम्' ग. ४. 'कटाक्षरेव' ग. ५. 'उपसंभारैक्यं च संगच्छते' ग. ६. 'विभाक्तं' ग. ७. 'संभाव्यते पदार्थेन' क-ख. ८. 'सादृश्यात्' क-ख. ९. 'प्रभेदात्' ख. १०. 'त्वया' ख. ११. 'साम्यादयः' ख.