SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ३ उद्योतः ] ध्वन्यालोकः । १९५ " द्विषयान्तरे शब्द आरोप्यते अत्यन्ततिरस्कृतखार्थः यथा 'अनिर्माणवकः' इत्यादौ यदा वा स्वार्थ मंशेनापरित्यजंस्तत्संबन्धद्वारेण विषयान्तरमाका - मति यथा— 'गङ्गायां घोषः' इत्यादौ तदा विवक्षितवाच्यत्वमुपपद्यते । अत एव च विवक्षितान्यपरवाच्ये ध्वनौ वाच्यवाचकयोर्द्वयोरपि खरूपप्रतीतिस्र्थावगमनं च दृश्यत इति व्यञ्जकत्वव्यवहारो युक्त्यनुरोघी । स्वरूपं प्रकाशयन्नेव परावभासको व्यञ्जक इत्युच्यते । तथाविधे विषये वाचकत्वस्यैव व्यञ्जकत्वमिति गुणवृत्तिव्यवहारे नियमेनैव न शक्यते वक्तुम् । अविवक्षितवाच्यस्तु ध्वनिर्गुणवृत्तेः कथं भिद्यते । तस्य प्रभेदद्वये गुणवृत्तिप्रभेदद्वयरूपता लक्ष्यत एव । यतोऽयमपि न दोषः । यस्मादविवक्षितवाच्यो ध्वनिर्गुणवृत्तिमार्गाश्रयोऽपि भवति न तु गुणवृत्तिरूप एव । गुणवृत्तिर्हि व्यञ्जकत्वशून्यापि दृश्यते । व्यञ्जकत्वं च यथोक्तचारुत्वहेतुं व्ययं विना न व्यवतिष्ठते । गुणवृतिस्तु वाच्यधर्माश्रयेणैव व्यङ्गयमा मेदद्वयेन च स्वीकृतमविवक्षितवाच्यं भेदद्वयात्मकमिति सूचयति । अत एवात्यन्ततिर - स्कृत ... विषयान्तरमाश्रय (काम) ति चेत्यनेन शब्देन तदेव मेदद्वयं दर्शयति — अत एव चेति । यत्तु एव तत्रोक्तहेतुबलाद्गुणवृत्तिव्यवहारो न्याय्यस्तत इत्यर्थः । युक्तिं लोकप्रसिद्धिरूपामबाधितां दर्शयति-स्वरूपमिति । उच्यत इति प्रदीपादिरिन्द्रि यादेस्तु कारणत्वं न व्यञ्जकत्वं प्रतीत्युत्पत्तौ । एवमभ्युपगमं प्रदशर्याक्षेपं दर्शयतिअविवक्षितेति । तुशब्दः पूर्वस्माद्विशेषं द्योतयति । तस्येति । अविवक्षितवाच्यस्य यत्प्रभेदद्वयं तस्मिन्गौणलाक्षणिकत्वात्मकं प्रकारद्वयं लक्ष्यते निर्भासत इत्यर्थः । एतत्परिहरति — अयमपीति । गुणवृत्तेर्यो मार्गः प्रभेदद्वयं स आश्रयो निमित्ततया प्राकक्ष्यानिवेशी यस्येत्यर्थः । एतच्च पूर्वमेव निर्णीतम् । ताद्रूप्याभावे हेतुमाह – गुणवृत्तिरिति । गौणलाक्षणिक रूपोभयी अपीत्यर्थः । ननु व्यञ्जकत्वे कैथं शून्या गुणवृत्तिर्भवति । यतः पूर्वमेवोक्तम् — 'मुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनम् । यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः ॥' इति । नहि प्रयोजनशून्य उपचारः प्रयोजनांशनिवेशी च व्यञ्जनव्यापार इति भवद्भिरेवाभ्यधायीत्याशयाभिमतं व्यञ्जकत्वं विश्रान्तिस्थानरूपं तत्र नास्तीत्याह — व्यञ्जकत्वं चेति । वाच्यधर्मेति । वाच्यविषयो यो धर्मोऽभिधा १. ‘संशयेन परित्यजन्' ख. २. 'एव हि परावभासमानो' क-ख. ३. 'नियमेन वै शक्यते' क-ख. ४. 'कर्तुम्' क-ख. ५. 'हेतुकं' क-ख. १. 'स्वार्थशब्देन ' क- ख. २. 'सूचयति' कख. ३. 'यतो न' क-ख. ४. 'मेदद्वयं' क-ख. ५. 'न' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy